SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् ९१ | भागस्य हीनाधिकत्वे कारणमाह-'ठिइविसेसेणं सेसाणं 'त्ति वेदनीयाच्छेषकर्मणामायुष्कादीनां भागस्य हीनत्वमाधिक्यं वा विज्ञेयं, केनेत्याह-स्थितिविशेषेण हेतुभूतेन, यस्य नामगोत्रादेरायुष्काद्यपेक्षया महती स्थितिस्तस्य तदपेक्षया भागोऽपि महान्, यस्य त्वसौ हीना तस्य सोऽपि हीन इति हृदयम् । ___आह-ननु यदि स्थित्यनुरोधेन द्रव्यवृद्धिस्तायुष्कस्थिते मगोत्रस्थितिः सङ्ख्यातगुणवृद्धेति तयोर्द्रव्यभागोऽपि सङ्ख्यातगुणवृद्धः प्राप्नोति, कथं विशेषाधिक उक्तः ? सत्यमेतत्, किन्तु नारकादिभवप्रायोग्यः सर्वोऽपि नरकगत्यादिकर्मनिवह आयुष्कोदयमूलस्तदुदय एव तस्योदयादत आयुष्कं प्रधानत्वाद् बहुद्रव्यं लभते । यद्येवं तदपेक्षयाऽप्रधानत्वात् नामगोत्रयोर्भागस्य विशेषाधिकत्वं नोपपद्यत इति चेत् ? सत्यम्, किन्तु नामगोत्रे ध्रुवबन्धित्वात् तदपेक्षया बहुतरं द्रव्यमवाप्नुतः, आयुष्कं तु कादाचित्कबन्धत्वादल्पं तदाप्नोति । एतदुक्तं भवति-शेषकर्मोदयाक्षेपकत्वेन प्रधानत्वात् स्थित्यनुरोधेन सङ्ख्यातगुणहीनताप्राप्तावपि नामगोत्रापेक्षया किञ्चिन्न्यूनमेव भागमायुष्कं लभ्यते । नामगोत्रे त्वप्रधानतया हीनताप्राप्तावपि ध्रुवबन्धित्वात् तदपेक्षया विशेषाधिकमेव भागं लभत इति ।। ननु तथापि ज्ञानावरणीयाद्यपेक्षया मोहनीयस्य सप्ततिसागरोपमकोटाकोटिलक्षणा स्थितिः सङ्ख्यातगुणेति भागोऽपि तस्य । सङ्ख्यातगुणः प्राप्नोति, कथं विशेषाधिक उक्तः, सत्यम्, किन्त्वेकस्या एव दर्शनमोहलक्षणाया मिथ्यात्वप्रकृतेः सप्ततिसागरोपमकोटाकोटिलक्षणा स्थितिः, चारित्रमोहनीयस्य तु कषायलक्षणस्य चत्वारिंशत्सागरोपमकोटाकोटिलक्षणैव स्थितिरेवं तदनुरोधेन २७३
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy