Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ॥
२३-पैलादिभ्यश्च ॥ अ० ॥ २ ॥ ४ ५९॥ .
पैलादिप्रातिपदिकेभ्यो युवप्रत्ययस्य लुग्भवति । पीलायां अपत्यं पैलः। तस्य युवापत्यमिति फिञ् तस्य लुक् ।पैलः पिता। पैलः पुत्रः । एवं शालङ्किः । इत्यादि। - पैल । शालङ्कि । सात्यकि । सात्यकामि । दैवि । औदमजि । औदवजि । औदमेघि । औदबुद्धि । देवस्थानि । पैङ्गलायनि । राणायनि । रौहतिति । भौलिङ्गि । औद्गाहमानि । औजिहानि । रागक्षति । राणि । सौमनि । ऊहमानि । तद्राजाच्चाणः (१) प्राकृतिगणोऽयम् । इतिपैलादयः ।
२४-न तौल्वलिभ्यः ॥ १० ॥२ । ४ । ६१॥
बौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य लुङ् न भवति । तुल्वलस्य गोत्रापत्यं तौल्वलिः। तस्य युवापत्यं तौल्वलायनः।। ____तौल्वलि । धारणि । रावणि । पारणि । दैलीपि । दैवलि । दैवमति । दै. वयज्ञि । प्रावाहणि । मान्धातकि । आनुहारति । श्वाफल्कि । आनुमति । प्रा. हिंसि । श्रासुरि । आयुधि । नैमिषि । आसिबन्धकि । बैकि । पौष्करसादि । वैरकि । वैलकि वहति । वैकणि । कारेणुपालि । कामलि । राधकि । आसुराहति । प्राणाहति। पौष्कि। कान्दकि । दोषकगति। पान्तराहति । इति तौल्वल्यादयः ।। २५-यस्कादिभ्यो गोत्रे ॥ १० ॥२ । ४ । ६३ ॥
यस्कादिभ्यः प्रातिपदिकेभ्यः परस्यास्त्रीलिङ्गम्य बहुवचने वर्तमानस्य गोत्रप्रत्ययस्य लुग्भवति यदि तेनेव गोत्रप्रत्ययेन कृतं बहुत्वं भवेत्तदा । यस्कस्य गोत्रापत्यं यास्कः । यास्की । यस्काः । लभ्याः । तेनैवेति किम् । प्रियो यारको येषां ते प्रिययास्काः । अस्त्रियामिति किम् । यास्क्यः स्त्रियः। गोत्र इति किम् । यास्काश्छात्राः । :
यस्क । लभ्य । दुह्य । श्रयःस्थूण । तृणकर्ण २)। सदामत्त । कम्बलभार । अहिर्योग । कर्णाटक । पर्णाडक । पिण्डीजङ्घ । बकसक्थ (३)। वस्ति । कद्रु । विधि । कद्रु । अजबस्ति । मित्रयु (४)। रक्षामुख । जङ्घारथ । मन्थक । उत्कास | कटुक । मन्धक । पुष्करसद् । विषपुट । उपरिमेखल । क्रोष्टुमान । क्रोष्टुपाद । शीषमाय (५)। खरप ( ६ )। पदक । वर्मक (७)
(!) वङ्गानां राजा वाङ्गः । तम्ययुवापत्यम् वाङ्गः । मङ्गस्यापत्यमाङ्गः पिता पुत्रो वा ।। (२) यस्कादिपञ्चभ्यः शिवादित्वादण् ।। ( ३ ) सदागत्तादिसप्तभ्य इञ् । ( ४ ) बस्त्यादिषड्भ्यो गृष्ट्यादित्वाड्ढञ् ॥ ( ५ ) रक्षामुखायेकादशभ्य इञ् । । (६ । खर पशब्दान्न डादित्वात्फा । ( ७ ) पदकवर्मकाभ्यामि ।।
For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69