Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठ ८४-दिगादिभ्यो यत् ।। भ० ॥ ४॥ ३॥ ५४ ।। सप्तमीसमर्थदिगादिपातिपदिकेभ्यो भवार्थे यत् प्रत्ययो भवति । अणश्छस्य चापवादः । दिशि भवं दिश्यम् । दिश । ो । पूर्म । गरम । पक्ष । धाय्या । मित्र । मेधा । अतर । पथिन् । रहस् । अलीक । उखा । सातिन् । आदि । अन्त । मुख । जघन १ । मेघ । यूथ । उदकात्संज्ञायाम् ( २ )। न्याय । वंश । अनुवंश । विश । काल । | अप् । आकाश । इति दिगादयः ॥ ८५-वा-यप्रकरणे परिमुवादिभ्य उपमंख्यानम् ॥ ४ । ३। ५० ॥ अव्ययीभावसंज्ञकेभ्यः परिमुखादिप्रातिपदिकेभ्यो ध्यप्रत्ययो भवति । नि. यमार्थ वार्तिकमिदम् । सूत्रेण सामान्याव्ययीभावाद् यः प्रमो नियम्यते । परिमुखं भवं पारिमुख्यम् । पारिहनव्यम् । नियमादिह न भवति । उपकूलं भवमोपकूलम् । परिमुख । परिहनु । पर्योष्ठ । पर्युलू । औपमूल । खल । परिसीर । अनु सीर । उपसीर । उपस्थल । उपकलाप । अनुपथ । अनुखड्ग । अनुलिल । अनुशीत । अनुमाष । अनुगव । अनुयूप । अनुवंश । अनुस्वङ्ग । इति परिमुखादयः ।। ८६-वा० - अध्यात्मादिभ्यश्च ।। ४ । ३ । ६०॥ अध्यात्मादिभ्यो भवार्थे ठञ् प्रत्ययो भवति । अध्यात्म भवमाध्यात्मिकम् । अध्यात्म । अधिदेव । अधिभूत । आकृतिगणोऽयम् । इत्यध्यात्मादयः ।। ८७-अण् ऋगयनादिभ्यः । श्र० ॥४।३ । ७३ ॥ षष्ठीसप्तमीसमर्थेभ्य ऋगयनादिप्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोरण प्रत्ययो भवति । ऋगयने भवमार्गयनः । तस्य व्याख्यानो वा । अण्ग्रहणं बाधकबाधनार्थम् वास्तुविद्याया व्याख्यानो ग्रन्थो वास्तुविद्यः । अत्र छपत्ययो माभूत् । ( १ ) मुखजघनशब्दाभ्यां शरीरावयवत्यादेव यति सिद्धे पुनरत्र दिगादिषु पाठाऽशरीरावयवार्थः । सेनामुखे भवः सेनामुख्यम् । सेनाजघन्यम् । सेनाया अग्रपश्चाद्भागौ गृह्यते । तदन्तविभिना यत् ॥ (२) उदके भवा उदक्या रजस्वला । संज्ञाग्रहणादिह न भवति । उदके भव औदको मत्स्यः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69