Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mithasonamainameraminat
antinuineamannamam
mamalonisaheeraa
daase
गणपाठः ॥
१३५-सिध्मादिभ्यश्च ॥ १०॥ ५। २ । ९७ ॥
सिमादिप्रातिपदिकेभ्यो मत्वर्थे विकल्पेन लच प्रत्ययो भवति ! सिध्मोऽस्यास्तीति सिध्मलः । सिध्मवान् । अत्र पक्षे मतुविष्यने नत्वत इनिठनौ ।
सिध्म । गडु । मणि । नाभि । जीव । निष्पाव । पांसु । सक्तु । हनु । मांस । परशु । पाणिधमन्योर्घिश्य । पाणीलः। धमनीलः । पर्ण । उदक । प्रज्ञा । मण्ड। पार्श्व । गण्ड । ग्रन्थि । वातदन्तवलललाटगलानामूङ् च ।। वातूलः । दन्तूलः। बलूलः । ललाटूलः । मलूलः ॥ जटाघटाकालाः क्षेप ॥ जटालः । घटालः । कालालः । सक्थि । कर्ण । स्नेह । शीत । श्याग । पिङ्ग। पित्त । शुरुक । पृथु । मृदु । मञ्जु । पत्र । चटु । कपि। कण्डु। संज्ञा । क्षुद्रजन्तूपतापाञ्चेष्यते । क्षुद्रजन्तुः । यूकालः । मक्षिकालः । उपता पबिचर्चिकालः । विषादिकालः । मूर्छालः । इति सिध्मादयः ॥
१३६-लोमादिपामादिपिच्छादिभ्यःशनेलचः॥ यः॥५।२।१७०॥
लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च प्रातिपदिकेभ्यो मत्वर्थे यथासंख्यं श, न, इलय् इत्येते प्रत्यया भवन्ति । लोमान्यस्य सन्तीति लोमशः। लामवान् । पाम विद्यतेऽस्य स पामनः। पामवान्।पिच्छमस्यास्तीति पिच्छिलः । पिच्छलवान् ।
लोमन् । रोमन् । बलगु । बभ्रु । हरि । कपि । शुनि । तझ । इति लोमादयः । पामन् । वामन् । हेमन् । श्लेष्मन् । कद्रु । बलि । श्रेष्ठ । पलल । सामन् । अगात्कल्याणे ॥ शाकीपलालीदवा हस्वत्वं च ॥ विष्वगित्युत्तरपदलोपश्चाकृतेसन्धे । लक्ष्म्या अञ्च ( १ ) ॥ इति पामादयः ॥ पिच्छ । उरस् । ध्रुवका । क्षुवका। जराघटाकालात् क्षेपे ( २ ) ॥ वर्ण । उदक । पङ्क। प्रज्ञा । इति पिच्छादयः ।।
१३७-ब्रीह्यादिभ्यश्च ॥ १०॥ ५। २ । ११६॥ प्रथमासमानाधिकरणब्रीह्यादिप्रातिपदिकेभ्यो मत्वर्थे इनिठनी प्रत्ययौ भवतः। ब्रीहयोऽस्य सन्तीति ब्रीही । ब्रीहिकः । ब्राहिमान् ।
( १ ) अङ्ग शब्दात्कल्याणे नः प्रत्ययः । कल्याणकरमंगं शरीरमस्याः सा, अङ्गना । शाकिनः । पलालिनः । दद्रुणः । विषु-अच् इत्यवस्थायां नः प्रत्ययस्तदैवोत्तरपदस्यान् भागस्य लोपः । विष्वगस्यास्तीति विपुणः । लक्ष्मी अस्यास्तीति लक्ष्मणः ।
(२) कुत्सिता जटा अस्य सन्तीति जटिलः । एवं घटिलः । कालिकः ॥
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69