Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra ५५ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गणपाठः ॥ भाषितपुंसक शब्दात् परस्य समानाधिकरणस्त्रीलिङ्गे पूरबी प्रियादिवर्जिते उत्तरपदे परतः पुंशब्दस्येव रूपं भवति । दर्शनीया भार्या यस्य स दर्शनीयभायः । दीर्घजङ्घः । अप्रियादिष्विति किम् | कल्याण. प्रियः । प्रिया । मनोज्ञा | कल्याणी । सुभगा । दुभर्गा । भक्तिः । सचिवा । अम्बा | कान्ता | क्षान्ता | समा । चपला । दुहिता । वामा || इति मियादयः ॥ १७५ - चनगियोः संज्ञायां कोटर किंशुलकादीनाम् || श्र० || ६ | ३ | | ११७ ॥ वन, गिरि, इत्येतयोरुत्तरपदयोः परयोर्यथासंख्यं कोटरादीनां किंशुलकादीनां च संज्ञायां विषये दीर्घो भवति । कोटरावणम् । किंशुलकागिरिः । 1 कोटर | मिश्रक । पुरक । सिक । सारिक । इति कोटरादयः । किंशुलक । साल्वक । अञ्जन । लोहित । कुक्कुट । इति किंशुलकादयः ॥ १७६- मतौ बह्वचोऽनजिरादीनाम् ॥ ० ॥। ६ । ३ । १ '६ ।। मतौ प्रत्यये परतोऽजिरादिवर्जितस्य बह्वचा दीर्घो भवति संज्ञायां विषये उदुम्बरावती । मशकावती । अमरावती | अनजिदीनामिति किम् । जिवती । खदिरवती । पुलिनवती । हंसकारण्डवती । चक्रवाकवती । इत्याजरादयः ॥ १७७ - शरादीनां च ॥ अ० । ६ । ३ । १२० ॥ संज्ञायां विषये मतौ परतः शरादीनां च दीर्घो भवति । शरावती । वंशावती । शर | वंश | धूम | अहि । कपि । मणि । मुनि । शुचि । हनु । इति शरादयः ।। १७८ - द्वारादीनां च ॥ अ० ॥ ७ । ३ । ४ ॥ द्वारादीनां युवाभ्यामुत्तरस्याचामादेरचः स्थाने वृद्धिर्न भवति । किन्तु पुवाभ्यां पूर्ववैागमौ भवतः । द्वारे नियुक्तः, दौवारिकः । स्वरमधिकृत्य कृतो ग्रन्थः, सौवरः । द्वार | स्वर | व्यल्कश । स्वस्ति। स्फयकृत | स्वादुमृदु । श्वन्स्व । इति द्वारादयः ॥ १७६ - स्वागतादीनां च ॥ अ० ।। ७ । ३ । ७ ॥ स्वागतादीनां शब्दानां युवाभ्यां पूर्वौ ञित् शित् कित् तद्धिते परत जागमौ न भवतः । वृद्धिस्तु भवत्येव । स्वागतमित्याह स्वागतिकः । स्वाध्वरेण चरति, स्वाध्वरिकः ॥ स्वागत । स्वध्वर । स्वङ्ग । व्यङ्ग । व्यङ । व्यवहार | स्वपति । इति स्वागतादयः ॥ १८० - अनुशतिकादीनां च ॥ अ० ॥ ७ । ३ । २० ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69