Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
'४५
www.kobatirth.org
गणपाठः ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रध्यायानुवाकयोरभिधेययाविमुक्ता दिशातिपदिकेभ्यो मत्वर्थे ऽण् प्रत्ययो भवति । विमुक्तं वर्त्ततेऽस्मिन् स वैमुक्तोध्यायानुवाको वा । दैवासुरः || विमुक्त | देवासुर | वसुमत् । सत्वत् । उपसत् । दशाईपयस । हविर्धान । मित्री सोमापूषन् । श्रग्नाविष्णू | वृत्रहति । इडा | रक्षोऽसुर । सदसत् । परिषादक् । वसु । मरुत्वत् । पत्नीवत् । महीयल | सत्वत् ( १ ) | दशाई | वयस् । पतत्रि। सोग। गहित्री । हेतु । अस्यहत्य । दशार्ण | उर्वशी । सुपर्ण । इति विमुक्तादयः। १३२ - गोषदादिभ्यो वुञ् ॥ अ० || ५ | २ | ६२ ॥
I
1
श्रध्यायानुवाकयोरभिषेययोगषदादिप्रातिपदिकेभ्यो मत्वर्थे दुन् प्रत्ययो भवति । गोपदशब्दोऽस्मिन्नस्ति, गोपदकोऽध्यायोऽनुवाको वा । इत्वकः ।
गोषद् । इत्वा । मातरिशन् । देवश्यत्वा देवी रापः । कृष्णोऽस्याखरेष्टः । दैवींधियम् । रक्षोहण | अञ्जन । मभूत । मतूर्त्त । दृशान । युञ्जान । सहस्रशीर्षा । वातस्पते । कृशास्त्र | स्वाहाप्राण । प्रसुस्त || इति गोपदादयः ॥ १३३ - श्राकर्षादिभ्यः कन् ॥ अ० || ५ | २ | ६४ ॥
आकर्षादिभ्यः सप्तमीसमर्थप्रातिपदिकेभ्यः कुशल इत्यर्थे कन् प्रत्ययो भवति । आकर्षे कुशल आकर्षकः ।
आकर्ष । त्सरु | पिपासा । पिचण्ड | अशनि । अश्मन् । विचय । चय | जय । श्रचय | अय । नय । निपाद । गद्गद । दीप | हृद | हाद । हूलाद । शकुनि । पिशाच । पिण्ड || इत्याकर्षादयः ||
१३४ - रसादिभ्यश्च ।। ० || ५ | २ | ६५ ॥
प्रथमासमानाधिकरणरसादिमातिपदिकेभ्योऽस्यास्त्यस्मिन्नित्यर्थे
मतुप् म
त्ययो भवति । रसादिगुणवाचकेभ्योऽन्ये मत्वर्थीयाः प्रत्यया माभूवन्निति सूत्रा रम्भः । रूपिणी कन्येत्यत्र तु शोभापरत्वं रूपस्य । रसोऽस्मिन्नस्तीति रसवान् । रूपवान् ।
रस । रूप । गन्ध। स्पर्श । शब्द | स्नेह । गुणात् एकाचः (२) ॥ इति रसादयः ॥
( १ ) सत्वदिति शब्दोऽस्मिन् गणं द्विवारं पठ्यते । यद्येकस्तालव्यादिर्भवेत्तदा तु युक्तमन्यथा प्रामादिकः पाठः ॥
( २ ) अत्र गुणशब्दो | रसादीनां विशेषणम् । एकाच् शब्दादपि गतुच् भवति नत्वतइनिठनौ । खवान् । खवान् ॥
For Private and Personal Use Only

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69