Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः
५० अणुनिपुणे । पुत्रकृत्रिमे । स्नातं वेदसमाप्तौ ॥ शून्यरिक्त । दानकुत्सिते ।। तनुसूत्रे ( १) ।। ईयसश्च ।। श्रेयस्कः । ज्ञात। कुमारीकीडनकानिच। इति यावादयः।।
१५१-विनयादिभ्यष्टक् ॥ अ० ॥ ५। ४ । ३४ ॥ विनयादिप्रातिपदिकेभ्यः स्वार्थे ठक् प्रत्ययो भवति । विनय एव, वैनयिकः ।
विनय । समय । उपायाद्धस्वत्वं च । औपयिकः । सङ्गति । कथंचित् । अकस्मात् । समयाचार । उपचार । समाचार । व्यवहार । सम्प्रदान। समुत्कर्ष । समूह । विशेष । अत्यय । अस्थि । कण्डु । इति विनयादयः ।
१५२-प्रज्ञादिभ्यश्च ॥ १० ॥५। ४ । ३८ ॥
प्रजानातीति प्रज्ञः । प्रज्ञादिप्रातिपदिकेभ्यः स्वार्थेऽण प्रत्ययो भवति । प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । यस्यास्तु प्रज्ञा विद्यते सा प्राज्ञा भवति ।
प्रज्ञ । वणिक् । उशिम् । उष्णिक् । प्रत्यक्ष । विद्वस् । विदन् । षोडन् । पोडश विद्या। मनम् । श्रोत्रशारीरे। श्रौत्रम् । जुह्वीत् । कृष्णमृगे । कार्णः। चिकीर्षत् । चोर । शक । योध । वक्षस् । चक्षुम् । धूर्त । वस् । एत् । मरुत् । क्रुङ् । राजा। सत्वन्तु । दशाई । वयस् । आतुर । असुर । रक्षस । पिशाच । अशनि । कार्षापण। देवता । बन्धु ॥ इति प्रज्ञादयः॥
१५३-द्विदण्डयादिभ्यश्च ।। अ० ॥ ५।४। १२८ ॥ द्विदण्ड्यादिशब्देपु बहुव्रीहिसपासे समासान्तइच्प्रत्ययो निपात्यते। द्वाभ्यां दण्डाभ्यां हन्यतेऽसौ द्विदण्डि। अव्ययीभावसमासे परिगणनमतोव्ययत्वम् । एवं द्विमुसलि।
द्विदण्डि । द्विमुसलि। उभाञ्जलि । उभयाञ्जलि । उभाकर्णि । उभयाकर्णि उभादन्ति । उभयादन्ति । उमाहस्ति । उमयाहस्ति । उभापाणि । उभयापाणि । उ. भावाहु । उभयाबाहु (२) एकपदि प्रोडपदि। आध्यपदि । सपदि । निकुन्यकर्णि। सहतच्छि ।। इति द्विदण्डयादयः ॥
(१) उप्णकः, शीतको वा ऋतुः । नूनकः, वियातको वा पशुः । अणुको निपु. णः । पुत्रकः। कृत्रिमः। स्नातको वेदपारगः । शून्यकं रिक्तम् । कुत्सितं दानं दानकम् । तनुकं सूत्रम् ॥
(२) अत्रोभयत्र निपातनादिच्प्रत्ययस्य लोपः । प्रत्ययलक्षणेन चाव्ययीभावसंज्ञा भवत्येव । अत्रापि केचिच्छन्दा तत्पुरुषसमासान्ता निपात्यन्ते । तेऽर्थसङ्गत्या ज्ञेयाः ।।
For Private and Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69