Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mame ४६ गणपाठः॥ १४७-दामन्यादित्रिगर्तषष्ठाच्छः ॥ १० ॥५। ३ । २१६॥ दामन्यादिभ्यस्त्रिगत्तैषष्ठेभ्यश्चायुधजीविसंघवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थे छः प्रत्ययो भवति । त्रिगतः पष्ठो येशां ते त्रिगर्तपष्ठाः । दामन्येवदामनीयः । दामनीयौ । दामन्यः । तद्वाजत्वाद् बहुवचने लुक् । त्रिगतपप्ठाः । कौएडोपरथएव, कौण्डोपरथीयः । अन्यत्पूर्ववत् । दाण्डकि। कौष्टकि । जालमानि । व्रह्मगुप्त । जानकि । इति त्रिगर्तषष्ठाः। अत्र जानकिरित्यस्यैव त्रिगर्त इति नामान्तरम्। दामनी । औलपि । पाकिदन्ती । काकरन्ति । काकदन्ति । शत्रुन्तपि । सार्वसेनि । बिन्दू । मौज्जायन । उलभ । सावित्रीपुत्र । अच्युतन्ति । कोकतन्ती। तुलभ । देववापि । औतकी । अपच्युतकी। की। पिण्ड ॥ इति दामन्यादयः॥ १४८-पर्वादियौधेयादिभ्यामणौ ॥ १० ॥ ५। ३ । ११७ ॥ पादिभ्यो यौधेयादिभ्यश्चायुधजीविसंघवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थेऽणी प्रत्ययौ यथासंख्यं भवतः । पशुरेव, पार्शवः । यौधेयः ।। पशु । असुर । रतस् । वाल्हीक । वयस् । मरुत् । दशाहे । पिशाच । विशाल । अशनि । कार्षापण । सत्वत् । वसु । इति पश्वर्वादयः ॥ यौधेय । कौशेय । क्रौशेय । शौक्रेय । शौभ्रेय । धातय । वार्तेय । जा वालेय । त्रिगर्त । भरत । उशीनर । इति यौधेयादयः ।। १४६-स्थूलादिभ्यः प्रकारवचने कन् । अ० ॥ ५। ४ । ३ ॥ स्थूलादिप्रातिपदिकेभ्यः प्रकारवचने द्योत्ये कन् प्रत्ययो भवति । स्थूलप्रकारः, स्थूलकः ॥ स्थूल । अणु । माष । इषु ॥ कृष्णतिलेषु ॥ यव व्रीहिए । इक्षुतिलपाद्यकालवदाताः सुरायाम् ॥ गोमूत्र आच्छादने ॥ सुराया अहौ । जीर्णशालिपु। पत्रमूले समस्तव्यस्ते (१) कुमारी पुत्र | कुमार। श्वशुर । मणि ।। इति स्थलादयः॥ १५०-यावादिभ्यः कन् । अ० ॥ ५। ४ । २९॥ यावादिप्रातिपदिकेभ्यः स्वार्थे कन् प्रत्ययो भवति । याव एव, थावकः ।। याव । मणि । अस्थि । चण्ड । पीतस्तम्ब । ऋतावुष्णशीते । पशो लूनवियाते (१) कृष्ण प्रकाराः कृष्णकास्तिलाः । यवका ब्रीहयः। इक्षुका । तिलका । पाद्यका । कालका । अवदातका । वासुरा। सूत्रक्रमाच्छादनम् । सुराकः सर्पः । जीर्णकाः शालयः। पत्रक समस्तम् । मूलकं व्यस्तम् ।। - For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69