Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - गणपाठः॥ १२ भन्दन ( १ )। भडिल । भण्डिल । भडित । भण्डित (२) । इति यस्कादयः॥ २६--न गोपवनादिभ्यः ॥१०।। २।४ । ६७॥ गोपवनादिप्रातिपदिकेभ्यः परस्य गोत्रप्रत्ययस्यं बहुवचनविभक्तौ लुङ् न भवति यबञोश्चेति प्राप्तो लुक् प्रतिषिध्यते । गोपवनस्य गोत्रापत्यं गौपवनः । गौपवनौ । गौपवनाः। गोपवन । शिग्रु । बिन्दु । भाजन । अश्व । अवतान । श्यामाक । श्वापर्ण । इत्यष्टौ विदाधन्तर्गता गोपवनादयः । २७-तिककितवादिभ्यो द्वन्द्वे ॥ १० ॥ २ ॥ ४ ॥१८॥ तिकादिभ्यः कितवादिभ्यश्च परस्य गोत्रप्रत्ययस्य द्वन्द्वसमासे बहुवचनविभक्तौ लुग्भवति । तैकायनयश्च कैतवायनयश्चेत्यत्र तिकादिभ्यः फिञ् तस्य लुक् । तिककितवाः । ववरभण्डीरथ : (३)। उपकलमकाः (४)। पफकनरकाः । बकनखश्वगुदेपरिणद्धाः (५)। उजककुभाः (६) । लङ्कश न्तमु ग्वाः (७)। उरसलङ्कटाः । ८)। भ्रष्टककपिष्ठलाः । कृष्णाजिनकृष्णसुन्दराः (8)। अग्निवेशदासेरका: । १० )। इति तिककितवादयः ।। २८-उपकादिभ्योऽन्यतरस्यामद्वन्द्धे ॥ १०॥२ । ४ । ६९ ॥ उपकादिप्रातिपदिकेभ्यः परस्य गोत्रप्रत्ययस्य बहुवचनविभक्तौ द्वन्द्वे चाद्वन्द्वे च विभाषा लुग्भवति । अद्वन्द्वग्रहणं द्वन्द्वाधिकारानिवृत्यर्थम् । एतेषां मध्ये त्रयो द्वन्द्वास्तिककितवादिषु पठिताः । उपकलमकाः । भ्रष्टककपिष्ठलाः । कृष्णाजिनकृष्णसुन्दराः । तेभ्यः पूर्वसूत्रेणैव नित्यलुग्भवति । अद्वन्द्वत्वनेन विकल्पः । उपकाः।औपकायनाः । लमकाः । लामकायनाः । शेषाणां द्वन्देऽद्वन्द्वे च विकल्पः। (१) भन्दनशब्दाच्छिवादित्वादण् ।। (२) भडिलादिचतुर्योऽश्वादित्वात्फञ् ॥ (३) वाङ्खरयश्च भांडीरथयश्चेतीञ् ॥(४) औपकायनश्च लाभकायनश्चेति नडादित्वात् | फक्॥ (५) पाफयश्च नारकयश्च, बाकनखयश्च, श्वागुदपरिणद्धयश्च सर्वेभ्योऽत इञ् तस्य लुक् ॥ ( ६ ) औब्जयश्च, इन् काकुभाश्च, शिवादित्वादण् । तयोर्लुक् ॥ (७) लाङ्कयश्च शान्तमुखयश्च, इञ् तस्य लुक् ।। (८) औरसायनश्च, निकादित्वात् फिञ् लाङ्कटयश्च, इञ् तयोर्मुक् ॥ ( २ ) भ्राष्टकयश्च; कापिष्ठलयश्च । कार्णाजिनयश्च कार्णसुन्दरयश्च । अतइञ् तस्यलुक् ॥ (१०) अग्निवेश्य च, गर्गादित्वाद् यञ् । दासेरंकयश्च, अत इञ् तयोर्लुन् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69