Book Title: Atha Vedanga Prakash
Author(s): Vaidik Yantralay Ajmer
Publisher: Vaidik Yantralay Ajmer
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणपाठः ।।
१४
भिदा ( १ ) | छिदा । विदा । क्षिपा । गुहा गिर्योषध्योः ॥ श्रद्धा मेधा । गोधा | आरा । द्वारा ! कारा । क्षिया । भारा। धारा । रेखा । लेखा । चूडा | पीडा | वपा | वसा । सृजा || कपेः संप्रसारणं च || कृपा । भिदा, वि दारणे ॥ बिदा, द्वैधीकरणे ॥ आरा, शास्त्रयम् ॥ धारा प्रपाते । इति भिदादयः ॥ ३३- वा० - संपदादिभ्यः किप् ( २ ) ॥ अ० ।। ३ । ३ । १०८ ॥ संपत् । विपत् । प्रतिपत् । आपत् । परिषत् । इति संपदादयः ॥ ३४ - भीमादयोऽपादाने || अ० || ३ | ४ ॥ ७४ ॥ भीमादयः शब्दा उणादिस्था अपादानकारके निपात्यन्ते ।
भीमः । भीष्मः । भयानकः । वरुः । चरुः । भूमिः । रजः । संस्कारः । संक्रन्दनः । प्रपतनः । समुद्रः । स्रुचः । स्रुक् । खलतिः ॥ इति भीमादयः ॥
३५ - अजायतंष्टाप् ॥ अ० ॥ ४ । १ । ४ ॥
अजादिभ्यः प्रातिपदिकेभ्योऽकारान्ता चं स्त्रियां टाप् प्रत्ययो भवति । श्रजा । देवदत्ता । अदितितपरकरणं तत्कालार्थम् । कीलालपाः, ब्राह्मणी । अत्र टाप् न भवति अजादिग्रहणं तु जात्यादिलक्षणस्य ङीपादेर्वाधनार्थम् ।
अजा | एडका | चटका । अश्वा । मूषिका (३) । बाला । होढा । पाका वत्सामन्दा । विलाता । पूर्वापहरणा । अपरापहरणा ( ४ ) | संभस्त्राजिनशापिण्डेभ्यः फलात् || संफला । (५) भत्रफला । अजिनफला । शाफला । पिण्डफला । सदच्काण्डप्रान्तशतकेभ्यः पुष्पात् ॥ (६) सत्पुष्पा । प्रापुष्पा । प्रत्यक्पुष्पा । काण्डपुष्पा | मान्तपुष्पा । शतपुष्पा । एकपुष्पा | शूद्रा( १ ) भिदादिगणे येष्वर्थ नियमः स महाभाष्यकारेणैव कृतोऽस्ति । विदारणादन्यार्थे भित्तिरिति सर्वत्रार्थान्तरे क्तिन् ॥
( २ ) संपदादिगणपठितेभ्य एव स्त्रियां क्विप् प्रत्ययो भवति । संपदादिश्चाकृतिगणों विज्ञेयः । कृत्यल्युटो बहुलमिति बहुलवचनात् क्तिन्नपि भवति । संपत्तिः । विपत्तिः । इत्यादि ॥
( ३ ) अजादिभ्यः पञ्चभ्यो जातिलक्षणो यो ङीष् प्राप्तः स बाध्यते ॥ ( ४ ) बालादिभ्यः षड्भ्यो वयसि डीपू प्राप्तः ॥ ( ५ ) आभ्यां टिल्लक्षणो ङीप् प्राप्तः ॥ ( ६ ) समादिभ्यः फलात् सदादिभ्यश्च पुष्पाद् बहुब्रीहौ यः पाककर्णेति सूत्रेण ङीष् प्राप्तः स बाध्यते ॥
For Private and Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69