Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 38
________________ EXISTENCE AND NON-EXISTENCE नखलु प्रत्यक्षं सर्वज्ञप्रमाणान्तराभावविषयम्, अतिप्रसङ्गात्। नानुमानम्, असिद्धेः । प्रमाणत: सिद्धं नाऽनात्मसिद्धं नाम, अन्यथा परस्यापि न सिद्धयेत् । तदिमे स्वयमेकेन प्रमाणेन सर्वं सर्वज्ञरहितं पुरुषसमूहं संविदन्त एवात्मानं निरस्यन्तीति व्याहतमेतत् । तीर्थच्छेदसम्प्रदायानां तथा सर्वमवगतमिच्छतामाप्तता नास्ति, परस्परविरुद्धाभिधानात् । एकानेकप्रमाणवादिनां स्वप्रमाव्यावृत्तेः, अन्यथानकान्तिकत्वात् । सर्वप्रमाणविनिवृत्तेः, इतरथा संप्रतिपत्तेः । वागक्षबुद्धीच्छापुरुषत्वादिकं क्वचिदनाविलज्ञानं निराकरोति, न पुनस्तत्प्रतिषेधवादिषु तथा, इति परमगहनमेतत् । तदित्थं सिद्धं सुनिश्चितासंभवद्वाधकप्रमाणत्वम् । तेन कः परमात्मा ? चिदेव लब्ध्युपयोगसंस्काराणामावरणनिबन्धनानामत्यये भवभृतां प्रभुः । न हि सर्वज्ञस्य निराकृतेः प्राक् सुनिश्चितासंभवत्साधकप्रमाणत्वं सिद्धं येन पर: प्रत्यवतिष्ठेत । नापि बाधकासंभवात् परं प्रत्यक्षादेरपि विश्वासनिबन्धनमस्ति। तत् प्रकृतेऽपि सिद्धम्, यदि तत्सत्तां न साधयेत् सर्वत्राप्यविशेषात् । तदभावे दर्शनं नादर्शनमतिशेते, अनाश्वासात्, विभ्रमवत् । साधकबाधकप्रमाणयोर्निर्णयात् भावाभावयोरविप्रतिपत्तिः, अनिर्णयादारेका स्यात् । न खलु ज्ञस्वभावस्य कश्चिदगोचरोऽस्ति यन्न क्रमेत, तत्स्वभावान्तप्रतिषेधात् । चेतनस्य सतः सम्बन्ध्यन्तरं मोहोदयकारणकं मदिरादिवत् । तदभावे साकल्येन विरतमोहः सर्वं पश्यति, प्रत्यासत्तिविप्रकर्षयोरकिञ्चित्करत्वात्, अत एवाक्षानपेक्षा अञ्जनादिसंस्कृतचक्षुषो यथा आलोकानपेक्षा ॥३॥ दोषावरणयोर्हानिनि:शेषाऽस्त्यतिशायनात् । क्वचिद् यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः॥४॥ In some person there must be a total destruction of the spiritual deficiencies and of the physical veilings (that act as the cause of these deficiencies), for there must be a case where such destruction is most complete of all; this is just as by an employment of appropriate means it is possible to bring about in a physical substance a total destruction of the extraneous as well as organic impurities which it had happened to accumulate. (4) Note: By “physical veilings' are to be understood the karmas (more correctly, karmans) which are supposed to have been accumulated by a soul as a result of its good or bad past acts and which the Jaina tradition conceives in the form of physical entities. वचनसामर्थ्यात् अज्ञानादिर्दोषः स्वपरपरिणामहेतुः। अत एव लोष्टादौ निःशेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्यसमीक्षिताभिधानम्, साध्यापरिज्ञानात् । दोषावरणयोर्हानेरति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140