Book Title: Aptamimansa Critique of an Authority Bhasya Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah Publisher: Jagruti Dilip Sheth DrPage 78
________________ PERMANENCE AND TRANSIENCE न विनष्टं कारणम्, असत्त्वात्, चिरतरातीतवत् । समनन्तरत्वेऽपि अभावाविशेषात् । न च पूर्वस्योत्तरं कार्यम्, तदसत्येव हि भावात्, वस्त्वन्तरवत् अतिक्रान्ततमवत् वा । न हि समर्थेऽस्मिन् सति स्वयमनुत्पित्सोः पश्चात् भवतः तत्कार्यत्वं समनन्तरत्वं वा नित्यवत् । कारणाभावाविशेषेऽपि कार्योत्पत्तिसमयनियमावक्लप्तौ कस्यचित् कौटस्थ्येऽपि तत्करणसमर्थसद्भावाभेदेऽपि कार्यजन्मनः कालनियमः किं न स्यात् ?, विशेषाभावात् । तथा च आकस्मिकत्वं स्यात् । उभयत्राविशेषेण कथञ्चिदनुपयोगेऽपि क्वचित् व्यपदेशकल्पनायाम् अन्यत्रापि किं न भवेत् ? क्षणस्थितिः एकोऽपि भावः अनेकस्वभावः, चित्रकार्यत्वात्, नानार्थवत् । न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्तम्, रूपादिज्ञानवत् । अन्यथा रूपादेर्नानात्वं न सिद्धयेत्, चक्षुरादिसामग्रीभेदात् तज्ज्ञाननि सभेदः अवकल्प्येत । युगपदेकार्थोपनिबद्धदृष्टीनामपि भवितव्यमेव प्रतिभासभेदेन, कारणसामग्रीभेदात्। अन्यथा दर्शनभेदोऽपि मा भूत, प्रत्यासन्नेतरयोर्वेशद्येतरनिर्भासोपलब्धेः । सेयमुभयतः पाशारज्जुः । सकृत् कारणस्वभावभेदमन्तरेण यदि कार्यनानात्वम्, क्रमशोऽपि कस्यचित् अपेक्षितसहकारिणः कार्यसन्ततिः किं न स्यात् ? सहकारिणः तद्धेतुस्वभावमभेदयन्तोऽपि कार्यभेदहेतवः स्युः क्षणक्षयवत् । न हि कादाचित्कानि तत् तत् कर्तुं समर्थानीति स्थिरोऽर्थः तत्करणस्वभावं जहाति, तद्बुद्धिपूर्वकत्वाभावात्, क्षणिकसामग्रीसनिपतितैककारणान्तरवत् । कल्पयित्वापि स्वहेतुप्रकृतिं भावानां स्वप्रकृतिरवश्यमन्वेष्या, तत्स्वभाववशात् तत्कारणप्रकृतिव्यवस्थापनात्। तदयमकारणोऽपि स्वभावनियतोऽर्थः स्यात्। यत् यत् भावं प्रति अनपेक्षं तत् तद्भावनियतम् । यथा विनाशं प्रति अनपेक्षं विनश्वरं तथैव स्थितिं प्रति अनपेक्षं स्थास्नु । तद्धेतोरकिञ्चित्करत्वात् तद्व्यरिक्ताव्यतिरिक्ताकारणात् इत्यादि सर्वं समानम्।आदौ स्थितिदर्शनात् शब्दविद्युत्प्रदीपादेः अन्तेऽपि स्थितेरनुमानं युक्तम्। अन्यथा अन्ते क्षयदर्शनात् आदौ तत्प्रतिपत्तिः असमञ्जसैव । तादृशः कारणादर्शनेऽपि कथञ्चिदुपादानानुमानवत् तत्कार्यसन्तानस्थितिः अदृष्टाऽपिअनुमीयेत। तस्मात्कथञ्चन स्थितिमतः प्रतिक्षणं विवर्तोऽपिनान्यथा। प्रभवादेरयोगात् कुतःप्रेत्यभावादिः? सत्यपि हेतुफलभावेऽकारणकार्यान्तरवत् सन्ततिर्न स्यात्, अतादात्म्याविशेषात् । तत्स्वभावविशेषावक्लृप्तौ तादात्म्ये कोऽपरितोषः ?, विरोधस्य सर्वथाऽपि अपरिहार्यत्वात् । तत्सन्तानापेक्षया प्रेत्यभावादिमामंस्त, ज्ञानज्ञेययोः प्रतिक्षणं विलक्षणत्वात्।नवैप्रत्यभिज्ञानादिः पुरुषान्तरवत् अन्तरवच्च । ततः कर्मफलसम्बन्धोऽपि नानासन्तानवत् अनियमात् न युक्तिमवतरति । तत् सूक्तम् 'क्षणिकपक्षो बुद्धिमद्भिरनादरणीयः, सर्वथा अर्थक्रियाविरोधात्, नित्यत्वैकान्तवत्' । सत्येव कारणे यदि कार्य, त्रैलोक्यमेकक्षणवर्ति स्यात्, ततः सन्तानाभावात् पक्षान्तरासंभवाच्च । इति स्थितम् ।।४१।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140