________________
89
WORLDY BONDAGE RESULTS... तदुभयव्यतिरिक्तं व्यवस्थानिमित्तम् अभ्युपगन्तव्यम् । उपमानादिकं प्रमाणान्तरमिच्छतां तत्त्वनिर्णयप्रत्यवमर्षप्रतिबन्धाधिगमप्रमाणत्वप्रतिषेधः प्रायशो वक्तु: जडिमानमाविष्करोति । इति प्रत्यक्षं परोक्षमित्येतत् द्वितयं प्रमाणम् अर्थापत्त्यादेरनुमानव्यतिरेकेऽपि परोक्षे अन्तर्भावात् । तत्र सकलज्ञानावरणपरिक्षयविजृम्भितं केवलज्ञानं युगपत् सर्वार्थविषयम्। तथोक्तम् ‘सर्वद्रव्यपर्यायेषु केवलस्य' इति। तज्ज्ञानदर्शनयोः क्रमवृत्तौ हि सर्वज्ञत्वं कादाचित्कं स्यात् । कुतः तत्सिद्धिः ? इति चेत्, सामान्यविशेषविषययोः विगतावरणयोः अयुगपत् प्रतिभासायोगात् प्रतिबन्धकान्तराभावात् । शेषं सर्वं क्रमवृत्ति, प्रकारान्तरासंभवात् । चक्षुरादिज्ञानपञ्चकस्यापि परस्परव्यवधानेऽपि विच्छेदानुपलक्षणम्, क्षणक्षयवत् । यौगपद्ये हि सन्तानभेदात् परस्परपरामर्शाभावः सन्तानान्तरवत् । मानसप्रत्यक्षेऽपि चक्षुरादिज्ञानानन्तप्रत्ययोद्भवेन कश्चित् विशेष: क्रमवृत्तौ, व्यवधानप्रतिभासविकल्पप्रतिपत्तेरसंभवात् । यौगपद्ये हि स्पर्शादिप्रत्यवमर्शविरोधः पुरुषान्तरवत् । विषयस्यानेकान्तात्मकत्वात् मतिज्ञानादि स्याद्वादनयलक्षितं प्रतिपत्तव्यम्, केवलज्ञानवत् स्याद्वादोपलक्षितत्वाच्च ॥१०१॥
उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥१०२॥
of these types of knowledge the former (i.e. pramāņa ) has got neutrality (in relation to the object concerned) for its result while the latter (i.e. syādvāda and naya) either acceptance or rejection (of the object concerned). Or, we might say that all knowledge has got for its result either neutrality (to be understood in a special sense -- e.g. in the sense of the withdrawal of attention from everything save what is its proper object') or 'the destruction of ignorance as to its object'. (102)
सिद्धप्रयोजनत्वात् केवलिनां सर्वत्र उपेक्षा । करुणावतः परदुःखजिहासोः कथमुपेक्षा ? तदभावे कथं चाप्तिः ? इति चेत्, स्वदुःखनिवर्तनवत् अकरुणयापि वृत्तेरन्यदुःखनिराचिकीर्षायाम् । दयालोरेव आत्मदुःखनिवर्तनम्, अतोऽयमसमाधिरिति चेत्, न, न वै प्रदीपः कृपालुतया आत्मानं परं वा तमसो निवर्तयतीति । कल्पयित्वापि कृपालुतां तत्करणस्वभावसामर्थ्य मृग्यम् । एवं हि परम्परापरिश्रमं परिहरेत् । मत्यादेः साक्षात् फलं स्वार्थव्यामोहविच्छेदः, तदभावे दर्शनस्यापि सनिकर्षाविशेषात् क्षणपरिणामोपलम्भवत् अविसंवादकत्वासंभवात् । परम्परया हानोपादानसंवित्तिः । तथा हि - करणस्य क्रियायाश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org