Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 127
________________ 92 CRITIQUE OF AN AUTHORITY एकलक्षणस्य तु गमकत्वम्, 'नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते' इति बहुलमन्यथानुपपत्तेरेव समाश्रयणात् । यत्र अर्थक्रिया न संभवति तत् न वस्तुतत्त्वम्, यथा विनाशैकान्तः । तथा च नित्यत्वेऽपि क्रमयोगपद्याभ्याम् अर्थक्रिया न संभवति, नापरं प्रकारान्तरम्, इति त्रिलक्षणयोगेऽपि प्रधानमेकलक्षणम्, तत्रैव साधनसामर्थ्यपरिनिष्ठितेः । तदेव च प्रतिबन्धः पूर्ववद्वीतसंयोग्यादिसकलहेतुप्रतिष्ठापकम् । ततः स्याद्वादेत्यादिना अनुमितम् अनेकान्तात्मकम् अर्थतत्त्वम् आदर्शयति । तस्य विशेषो नित्यत्वादिः पृथक् पृथक् । तस्य प्रतिपादको नयः । तथा चोक्तम् - अर्थस्यानेकरूपस्य धीः प्रमाणं तदंशधीः। नयो धर्मान्तरापेक्षी दुर्णयस्तन्निराकृतिः ।। इति तदनेकान्तप्रतिपत्तिः प्रमाणम्, एकधर्मप्रतिपत्तिः नयः, तत्प्रत्यनीकप्रतिक्षेपः दुर्णयः केवलविपक्षविरोधदर्शनेन स्वपक्षाभिनिवेशात् ॥१०६॥ नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविभ्राड्भावसम्बन्धो द्रव्यमेकमनेकधा॥१०७॥ A substance is but the meeting-ground of all those features - belonging to the past, present and future periods of time - that are expressed in an exclusive fashion by these and those types and sub-types of naya, a meeting-ground which however does not make it obligatory that an independent relation be posited between it and the features in question. This is how a substance is one and yet possessed of a multifarious nature. (107) उक्तलक्षणो द्रव्यपर्यायस्थानः सङ्ग्रहादिः नयः, तच्छाखाप्रशाखात्मा उपनयः । तदेकान्तानां विपक्षोपेक्षालक्षणानां त्रिकालविषयाणां समितिः द्रव्यम् । ततः तेषामपोद्धारात् गुणगुण्यादिवत् ॥१०७|| मिथ्यासमूहो मिथ्या चेन मिथ्यैकान्तताऽस्ति नः । निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृत् ॥१०॥ It might be objected that what is a conglomeration of false features is itself but a falsity (while a naya, inasmuch as it deals with some partial aspect of a total situation, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140