Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 123
________________ 88 CRITIQUE OF AN AUTHORITY aspects in succession is technically called syādvāda and naya (the former seeking to cover all these aspects, the latter some one of them). (101) बुद्धेरनेकान्तात् येन आकारेण तत्त्वपरिच्छेदः तदपेक्षया प्रामाण्यम् । तेन प्रत्यक्षतदाभासयोरपिप्रायशः सङ्कीर्णप्रामाण्येतरस्थितिः उन्नेतव्या, प्रसिद्धानुपहतेन्द्रियदृष्टेरपि चन्द्रार्कादिषु देशप्रत्यासत्त्याद्यभूताकारावभासनात्, तथा उपहताक्षादेरपि सङ्ख्यादिविसंवादेऽपि चन्द्रादिस्वभावतत्त्वोपलम्भात् । तत्प्रकर्षापेक्षया व्यपदेशव्यवस्था गन्धद्रव्यादिवत् । तथा अनुमानादेरपि कथञ्चित् मिथ्याप्रतिभासेऽपि तत्त्वप्रतिपत्त्यैव प्रामाण्यम् । एकान्तकल्पनायां तु नान्तर्बहिः तत्त्वसंवेदनं व्यवतिष्ठेत, स्वयमद्वयादेः द्वयादिप्रतिभासनात्, रूपादिस्वलक्षणानां च तथैवादर्शनात् यथा व्यावर्ण्यन्ते । तद्विशेषोपलम्भाभ्युपगमेऽपि तद्व्यवसायवैकल्यम्। क्वचित् धर्माधर्मसंवेदनवत् परोक्षत्वोपपत्तेः। विकल्पानाम् अतत्त्वविषयत्वात् कुतः तत्त्वप्रतिपत्तिः ? मणिप्रदीप्रभादृष्टान्तोऽपि स्वपक्षघाती, मणिप्रदीपप्रभादर्शनस्यापि संवादकत्वेन प्रामाण्यप्राप्त्या प्रमाणान्तर्भावविघटनात् । न हि तत् प्रत्यक्षम्, स्वविषये विसंवादनात्, शुक्तिकादर्शनवत् रजतभ्रान्तौ । नापि लैङ्गिकम्, लिङ्गलिङ्गिसम्बन्धाप्रतिपत्तेः। अन्यथा दृष्टान्तेतरयोरेकत्वात् किंकेन कृतं स्यात् ? कादाचित्कार्थप्राप्तेः आरेकादेरपिसंभवात्। नहि मिथ्याज्ञानस्यसंवादनैकान्तः। तथानलैङ्गिकम्, सर्वथैवाविसंवादकत्वात् । तस्मात् सूक्तम् 'तत्त्वज्ञानमेव प्रमाणं कारणसामग्रीभेदात् प्रतिभासभेदेऽपि' इति। प्रमाणमेव वा तत्त्वज्ञानम्। ततःस्वलक्षणदर्शनानन्तरभाविनः तत्त्वव्यवसायस्यप्रमाणत्वोपपत्तेः प्रत्यक्षमनुमानमिति प्रमाणे एव इति अवधारणं प्रत्याचष्टे । अनधिगतार्थाधिगमाभावात् तदप्रमाणत्वे लैङ्गिकस्यापि मा भूत्, विशेषाभावात् । अनधिगतस्वलक्षणाध्यवसायात् अनुमितेरतिशयकल्पनायां प्रकृतस्यापि न वै प्रमाणत्वंप्रतिषेध्यम्, अनिर्णीतनिर्णयात्मकत्वात्, क्षणभङ्गानुमानवत् । ध्वनेरखण्डशः श्रवणात् अधिगमोऽपि प्राथमकल्पिकः तत्त्वनिर्णीतिरेव। तदत्यये दृष्टेरपि विसंवादकत्वेन प्रामाण्यानुपपत्तेः अदर्शनानतिशायनात् । तदर्शनाभावेऽपि तत्त्वनिश्चये तदन्यसमारोपव्यवच्छेदलक्षणे प्रमाणलक्षणाङ्गीकरणात् । क्वचित् कुतश्चित् धूमकेतुलैङ्गिकवत् निर्णीतार्थमात्रस्मृतेः अधिगतार्थाधिगमात् प्रामाण्यमाभूत्, प्रमितिविशेषाभावात्। प्रकृतनिर्णयस्यप्रामाण्ये हि न किञ्चित् अतिप्रसज्यते, निर्णीतेऽपि कथञ्चित् अतिशायनात् । प्रत्यभिज्ञानं प्रमाणम्, व्यवसायातिशयोपपत्तेः, तत्सामर्थ्याधीनत्वात् प्रमाणत्वस्थितेः । अन्यथा हि विसंवादः स्यात्, संशयादिवत् । लिङ्गलिङ्गिसम्बन्धज्ञानं प्रमाणम्, अनिश्चितनिश्चयात्, अनुमानवत् । सत्त्वक्षणिकत्वयोः धूमतत्कारणयोः वा साकल्येन व्याप्तिप्रतिपत्तौ न प्रत्यक्षमुत्सहते, सन्निहितार्थाकारानुकारित्वात्, अपरीक्षाक्षमत्वाच्च, नानुमानम्, अनवस्थानुषङ्गात् । सुदूरमपि गत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140