Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 121
________________ 86 CRITIQUE OF AN AUTHORITY अस्याः सम्बन्धः, तत्कृतोपकारानपेक्षणात् । ततो व्यपदेशोऽपि मा भूत् । अभिसन्धेः अनित्यत्वेऽपि समानः प्रसङ्गः, सकृत् उत्पत्त्यादिप्रसङ्गात् विचित्रत्वानुपपत्तेरिति । तयोरेकस्वभावत्वेऽपि कर्मवैचित्र्यात् कामादिप्रभववैचित्र्यमिति चेत्, युक्तमेतत्, किन्तु न ईश्वरेच्छाभ्यां किञ्चित्, तावता अर्थपरिसमाप्तेः । एतेन विरम्यप्रवृत्तिसन्निवेशविशेषादिभ्यः पृथिव्यादेः बुद्धिमत्कारणपूर्वकत्वसाधनेन ईश्वरप्रापणं प्रत्युक्तम् । प्राक् कायकरणोत्पत्तेः आत्मनो धर्माधर्मयोश्च स्वयमचेतनत्वात् विचित्रोपभोगयोग्यतनुकरणादिसंपादनकौशलासंभवात् तनिमित्तमात्मान्तरं मृत्पिण्डकुलालवदिति चेत्, न, तस्यापि वितनुकरणस्य तत्कृतेरसंभवात् तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वम् अप्रतिषिद्धम्, सर्वथा दृष्टान्तव्यतिक्रमात् । स्थित्वाप्रवर्तनार्थक्रियादि चेतनाधिष्ठानादिति नियमे पुनः ईश्वरादेरपि मा भूत् । नायं प्रसङ्गः बुद्धिमत्त्वादिति चेत्, तत एव तर्हि प्रहीणतनुकरणादयः प्राणिनो मा भूवन् । कर्मणो वैचित्र्यादिति चेत् तर्हि तेषामीश्वरज्ञाननिमित्तत्वे समानः प्रसङ्गः । तदनिमित्तत्वे तनुकरणादेरपि तन्निमित्तत्वं मा भूत्, विशेषाभावात् । एवं चार्थक्रियादेरपिताभ्यामैकान्तिकत्वम्। ततः कर्मबन्धविशेषवशात् चित्राः कामादयः, ततः कर्मवैचित्र्यम् । न हि भावस्वभावोपालम्भः करणीयः, अन्यत्रापि तत्प्रसङ्गानिवृत्तेः । न तर्हि केषांचित् मुक्तिः इतरेषां संसारश्च, कर्मबन्धनिमित्ताविशेषात् इति चेत्, न, शुद्धयशुद्धितः प्रतिमुक्तीतरसंभवात् आत्मनाम् ।।९९।। शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत्। साधनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः ॥१०॥ Now purity and impurity are the possible inherent capacities of a soul just as cookability and noncookability are the possible inherent capacities (of a grain of corn). As for the manifestation of these capacities, it is beginningless in the case of impurity and is possessed of a beginning in the case of purity. And this difference of behaviour on the part of the two capacities is unamenable to logic. (100) Note: That is to say, the impure type of souls have been behaving in an unworthy fashion since beginningless time but it is at a particular time that the pure type of them begin to behave in a conspicuously worthy fashion. भव्येतरस्वभावौ तेषां सामर्थ्यासामर्थ्य, माषादिपाक्यापरशक्तिवत्। शक्तेः प्रादुर्भावापेक्षया सादित्वम्। अभिसन्धिनानात्वंशुद्धयशुद्धिशक्त्योरितिभेदमाचार्यः प्राह। ततोऽन्यत्रापि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140