Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 79
________________ 44 CRITIQUE OF AN AUTHORITY यद्यसत् सर्वथा कार्यं तन्मा जनि खपुष्पवत् । मोपादाननियमो भून्माश्वासः कार्यजन्मनि ॥४२॥ If an effect is absolutely non-existent, then it should rather never be produced just as sky-flower is never produced, then there should rather be no fixed rule that this material cause will bring about that effect, then there should rather be no confident feeling that this effect will be forthcoming out of that cause. (42) कथञ्चित् सतः कार्यत्वम्, उपादानस्योत्तरीभवनात्, सकृदपि विरुद्धधर्माध्यासानिराकृतेः । तथा चान्वयव्यतिरेकप्रतीतेः भावस्वभावनिबन्धनायाः किं फलमपलापेन ? तदन्यतरनिराकृतौ उभयनिराकृतिः, अभेदात् । तन्न असत् कार्यम्, सर्वथानुत्पादप्रसङ्गात्, खपुष्पवत्। न तादृक् कारणवत्, सर्वथाऽभूतत्वात् वन्ध्यासुतवत्, कथञ्चिदस्थितानुत्पन्नत्वात् इति योज्यम् । सत्यपि प्रभवलक्षणे पूर्वपूर्वस्योत्तरीभवनं मृत्पिण्डस्थासकोशकुशूलादिषु सकललोकसाक्षिकं सिद्धम् । स्वमनीषिकाभिः सदृशापरापरोत्पत्तिविप्रलम्भानवधारणावक्तृप्तिम् आरचयतां मा उपादाननियमो भूत्, कारणान्तरवत्, तदन्वयाभावाविशेषात् सर्वथा वैलक्षण्यात्। निरन्वयस्यापितादृशीप्रकृतिरात्मानं कारणान्तरेभ्योययाविशेषयतीति चेत्, न, अत्यन्तविशेषानुपलब्धेः । तदविशेषादशी सर्वथा आन्ध्यं स्यात् । तस्मात् इयमस्य प्रकृतिर्यया पूवोत्तरस्वभावहानोपादानाधिकरणस्थितिं प्रतिक्षणं बिभर्ति यतः अयमुपादाननियमः सिद्धः । अथापि कथञ्चित् उपादाननियमः कल्प्येत, कार्यजन्मनि कथमाश्वासः ? तदत्यन्तासतः कार्यस्योत्पत्तेः तन्तुभ्यः पटादिरेव न घटादिरिति निर्हेतुको नियमः स्यात्।पूर्वपूर्वविशेषात्उत्तरोत्तरनियमकल्पनायाम्अनुपादानेऽपिस्यात्। तथाऽदर्शनम् अहेतुः, अत्रैव विचारात् । कथञ्चिदाहितविशेषतन्तूनां पटस्वभावप्रतिलम्भोपलम्भात् तदन्यतरविधिप्रतिषेधनियमनिमित्तात्ययात्प्रतीतेरलमपलापेन । तस्मात् उपलब्धिलक्षणप्राप्तानुपलब्धिः अनन्वयस्यैव, न पुनरुभयरूपस्य । इत्यलं प्रसङ्गेन ॥४२॥ न हेतुफलभावादिरन्यभावादनन्वयात्। सन्तानान्तरवन्नैकः सन्तानस्तद्वतः पृथक् ॥४३॥ There can obtain no relationship of cause-effect etc. between two entities that are (utterly) separate from one another, their mutual separateness in its turn being due to the absence of a persistent element running through the two; this is just as there is (on the momentarist's own Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140