Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 105
________________ 70 CRITIQUE OF AN AUTHORITY able, then even to say that a phenomenon is indescribable becomes an impossibility on their part. युक्तीतरैकान्तद्वयाभ्युपगमोऽपि मा भूत्, विरुद्धयोरेकत्र सर्वथा असंभवात् । तदवाच्यत्वेऽपि पूर्ववत् ।।७७॥ वक्तर्यनाप्ते यद्धेतोः साध्यं तद्धेतुसाधितम्। आप्ते वक्तरि तद्वाक्यात् साध्यमागमसाधितम् ॥७८॥ When the speaker happens to be not an authority on the subject matter concerned what he establishes with the help of a probans should be called 'something established with the help of a probans'; when the speaker happens to be an authority on the subject matter concerned what he establishes on the basis of his mere utterance should be called 'something established on the basis of scriptural authority.' (78) यो यत्र अविसंवादकः स तत्र आप्तः। ततोऽपरः अनाप्तः। तत्त्वप्रतिपादनम् अविसंवादः, तदर्थज्ञानात्। तेनातीन्द्रिये जैमिनि: अन्योवा श्रुतिमात्रावलम्बीनैवआप्तः, तदर्थापरिज्ञानात्, तथागतवत् । न हि तादृशोऽतीन्द्रियार्थज्ञानमस्ति, दोषावरणक्षयातिशयाभावात् । श्रुतेः परमार्थवित्त्वम्, ततः श्रुतेरविसंवादनम्, इति अन्योन्यसंश्रितम् । स्वतः श्रुतेन वै प्रामाण्यम्, अचेतनत्वात्, घटवत् । सन्निकर्षादिभिः अनैकान्तिकत्वम् अयुक्तम्, तत्प्रामाण्यानभ्युपगमात् । अथापि कथञ्चित् तत्प्रमाणत्वं स्यात्, अविसंवादकत्वात् । श्रुतेः अयुक्तमेव, तदभावात् । तेनोपचारमात्रमपि न स्यात्, तदर्थबुद्धिप्रामाण्यासिद्धेः । आप्तवचनं तु प्रमाणव्यपदेशभाक्, तत्कारणकार्यत्वात् । तदतीन्द्रियार्थदर्शनोत्पत्तेः तदर्थज्ञानोत्पादनाच्च । नैतत् श्रुतेः संभवति, सर्वथा आप्तानुक्तेः, पिटकत्रयवत् । वक्तृदोषात् तादृशोऽप्रामाण्यम्, तदभावात् श्रुतेः प्रामाण्यमिति चेत्, कुतोऽयं विभागः सिद्धयेत् ? अभ्युपगमानभ्युपगमाभ्यां क्वचित् पौरुषेयत्वमन्यद्वा व्यवस्थापयतीति सुव्यवस्थितं तत्त्वम् । एतेन कर्तृस्मरणाभावादयः प्रत्युक्ताः, वेदेतरयोरविशेषात् । इतरत्र बुद्धो वक्तेति चेत्, तत्र कमलोद्भवादिरिति कथं न समानम् ? सुदूरमपि गत्वा तदङ्गीकरणेतरमात्रे व्यवतिष्ठेत । वेदाध्ययनवदितरस्यापि सर्वदाध्ययनपूर्वाध्ययनत्वप्रक्लृप्तौ न वक्त्रं वक्रीभवति, तदतिशयान्तराणां च शक्यक्रियत्वात् इतरत्रापि, मन्त्रशक्तेरपि दर्शनात् । सिद्धेऽपि तदनादित्वे पौरुषेयत्वाभावे वा कथम् अविसंवादकत्वं प्रत्येतव्यम् ?, म्लेच्छव्यवहारादेः तादृशो बहुलमुपलम्भात् । कारणदोषनिवृत्तेः कार्यदोषाभावकल्पनायां पौरुषेयस्यैव वचनस्य दोषनिवृत्तिः, कर्तुः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140