Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 107
________________ SECTION VII PAN-INTERNALISM AND PAN-EXTERNALISM . Verses 79-80 अन्तरङ्गार्थतैकान्ते बुद्धिवाक्यं मृषाऽखिलम्। प्रमाणाभासमेवातस्तत् प्रमाणादृते कथम् ॥७९॥ If it is maintained that the internal entities are alone real (i.e. that all cognition is a mere manipulation of one's subjective states), then all cognitions and all propositions will turn out to be a falsity and hence a piece of pseudoauthentic knowledge. But how can there be pseudoauthentic knowledge without there being authentic knowledge ? (79) अथ सप्तमः परिच्छेदः तज्जन्मकार्यप्रभवादि वेद्यवेदकलक्षणम् अनैकान्तिकम् आदर्य संवित्तिरेव खण्डशः प्रतिभासमाना व्यवहाराय कल्प्यते इति अभिनिवेशेऽपि प्रमाणं मृग्यम् । क्षणिकत्वम् अनन्यवेद्यत्वं नानासन्तानत्वमिति स्वतः तावत् न सिद्धयति, भ्रान्तेः। तथा आत्मसंवेदनेऽपि व्यवसायवैकल्ये प्रमाणान्तरापेक्षया अनुपलम्भकल्पत्वात् । न हि तथा बुद्धयः संविदन्ते यथा व्यावर्ण्यन्ते । नापि परतः, सम्बन्धप्रतिपत्तेरयोगात् । स्वांशमात्रावलम्बिना मिथ्याविकल्पेन प्रकृततत्त्वव्यवस्थापने बहिरर्थेष्वपि अविरोधात् । कथञ्चित् अत्र वेद्यलक्षणं यदि व्यवतिष्ठेत प्रकृतं कृतं स्यात्, नान्यथा । न चानुक्तदोष लक्षणमस्ति। तत्संभवे नान्यत्र तदसंभवोऽभिधेयः। तत्स्वपरपक्षयोः सिद्धयसिद्धयर्थं किञ्चित् कथञ्चित् कुतश्चित् अवितथज्ञानमादरणीयम्, अन्याऽशेषविभ्रमासिद्धेः । एतेन यत् ग्राह्यग्राहकाकारं तत् सर्वं विभ्रान्तम्, यथा स्वप्नेन्द्रजालादिज्ञानम्, तथा च प्रत्यक्षादिकमिति प्रतिविहितं वेदितव्यम् ॥७९॥ साध्यसाधनविज्ञप्तेर्यदि विज्ञप्तिमात्रता। न साध्यं न च हेतुश्च प्रतिज्ञाहेतुदोषतः ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140