Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 110
________________ PAN-INTERNALISM AND PAN-EXTERNALISM 75 indescribable, then even to say that a phenomenon is indescribable becomes an impossibility on their part. (82) अन्तर्बहिर्जेयैकान्तयोः सहाभ्युपगमोविरुद्धः । तदवाच्यतायाम् उक्तिविरोधः पूर्ववत्॥८२ Comment on verse 82 This verse literally repeats the verse 13 and serves in the present section the same purpose as the latter does in the first. Verses 83-87 भावप्रमेयापेक्षायां प्रमाणाभासनिह्नवः । बहिष्प्रमेयापेक्षायां प्रमाणं तन्निभं च ते ॥८॥ If it is maintained that all knowables are of a subjective character, then there results the repudiation of all possibility of pseudo-authentic knowledge. But on your position, which grants the reality of the knowables of an objective character, both authentic knowledge and pseudo-authentic knowledge remain a possibility. (83) Note : Here bahisprameya means 'knowable of an objective character (be it external or internal)' and not knowable of an external character'. As contrasted to bahisprameya is bhāvaprameya meaning ‘knowable of a subjective character'. सर्वसंवित्तेः स्वसंवेदनस्य कथञ्चित् प्रमाणत्वोपपत्तेः तदपेक्षायां सर्वं प्रत्यक्षम्, न कश्चित् प्रमाणाभासः । तथा अनभ्युपगमेऽन्यत एव बुद्धेरनुमानं स्यात् । तत्रार्थज्ञानम् अलिङ्गम्, तदविशेषेणासिद्धेः । विशेषे वा तदन्यतरेणार्थपरिसमाप्तेः किं द्वितीयेन ? यत् चेदमर्थज्ञानं तत् चेत् अर्थस्वलक्षणम्, स्यात् व्यभिचारात् अहेतुः । एतेन इन्द्रियादिप्रत्यक्षं प्रत्युक्तम् । ततः प्रत्यक्षेतरबुद्धयवभासस्य स्वसंवेदनात् प्रत्यक्षविरुद्धम् । सुखदुःखादिबुद्धेरप्रत्यक्षत्वे हर्षविषादादयोऽपि न स्युः, आत्मान्तरवत् । एतेन प्रतिक्षणं निरंशं संवेदनं प्रत्यक्षं प्रत्युक्तम्, यथाप्रतिज्ञमनुभवाभावात्, यथानुभवमनभ्युपगमात्, सर्वत्र सर्वदा भ्रान्तेः अप्रत्यक्षत्वाविशेषात्, कथञ्चित् भ्रान्तौ एकान्तहानेः, विकल्पस्वसंवेदनेऽपि विकल्पानतिवृत्तेः । तस्मात् स्वसंवेदनापेक्षया न किञ्चित् ज्ञानं सर्वथा प्रमाणम् । बहिरर्थापेक्षया तुप्रमाणतदाभासव्यवस्था, तत्संवादकविसंवादकत्वात्, क्वचित् स्वरूपे केशमशकादिज्ञानवत् ॥८३॥ जीवशब्दः सबाह्यार्थः संज्ञात्वाद्धेतुशब्दवत् । मायादिभ्रान्तिसंज्ञाश्च मायाद्यैः स्वैः प्रमोक्तिवत् ॥८४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140