________________
PERMANENCE AND TRANSIENCE न विनष्टं कारणम्, असत्त्वात्, चिरतरातीतवत् । समनन्तरत्वेऽपि अभावाविशेषात् । न च पूर्वस्योत्तरं कार्यम्, तदसत्येव हि भावात्, वस्त्वन्तरवत् अतिक्रान्ततमवत् वा । न हि समर्थेऽस्मिन् सति स्वयमनुत्पित्सोः पश्चात् भवतः तत्कार्यत्वं समनन्तरत्वं वा नित्यवत् । कारणाभावाविशेषेऽपि कार्योत्पत्तिसमयनियमावक्लप्तौ कस्यचित् कौटस्थ्येऽपि तत्करणसमर्थसद्भावाभेदेऽपि कार्यजन्मनः कालनियमः किं न स्यात् ?, विशेषाभावात् । तथा च आकस्मिकत्वं स्यात् । उभयत्राविशेषेण कथञ्चिदनुपयोगेऽपि क्वचित् व्यपदेशकल्पनायाम् अन्यत्रापि किं न भवेत् ? क्षणस्थितिः एकोऽपि भावः अनेकस्वभावः, चित्रकार्यत्वात्, नानार्थवत् । न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं युक्तम्, रूपादिज्ञानवत् । अन्यथा रूपादेर्नानात्वं न सिद्धयेत्, चक्षुरादिसामग्रीभेदात् तज्ज्ञाननि सभेदः अवकल्प्येत । युगपदेकार्थोपनिबद्धदृष्टीनामपि भवितव्यमेव प्रतिभासभेदेन, कारणसामग्रीभेदात्। अन्यथा दर्शनभेदोऽपि मा भूत, प्रत्यासन्नेतरयोर्वेशद्येतरनिर्भासोपलब्धेः । सेयमुभयतः पाशारज्जुः । सकृत् कारणस्वभावभेदमन्तरेण यदि कार्यनानात्वम्, क्रमशोऽपि कस्यचित् अपेक्षितसहकारिणः कार्यसन्ततिः किं न स्यात् ? सहकारिणः तद्धेतुस्वभावमभेदयन्तोऽपि कार्यभेदहेतवः स्युः क्षणक्षयवत् । न हि कादाचित्कानि तत् तत् कर्तुं समर्थानीति स्थिरोऽर्थः तत्करणस्वभावं जहाति, तद्बुद्धिपूर्वकत्वाभावात्, क्षणिकसामग्रीसनिपतितैककारणान्तरवत् । कल्पयित्वापि स्वहेतुप्रकृतिं भावानां स्वप्रकृतिरवश्यमन्वेष्या, तत्स्वभाववशात् तत्कारणप्रकृतिव्यवस्थापनात्। तदयमकारणोऽपि स्वभावनियतोऽर्थः स्यात्। यत् यत् भावं प्रति अनपेक्षं तत् तद्भावनियतम् । यथा विनाशं प्रति अनपेक्षं विनश्वरं तथैव स्थितिं प्रति अनपेक्षं स्थास्नु । तद्धेतोरकिञ्चित्करत्वात् तद्व्यरिक्ताव्यतिरिक्ताकारणात् इत्यादि सर्वं समानम्।आदौ स्थितिदर्शनात् शब्दविद्युत्प्रदीपादेः अन्तेऽपि स्थितेरनुमानं युक्तम्। अन्यथा अन्ते क्षयदर्शनात् आदौ तत्प्रतिपत्तिः असमञ्जसैव । तादृशः कारणादर्शनेऽपि कथञ्चिदुपादानानुमानवत् तत्कार्यसन्तानस्थितिः अदृष्टाऽपिअनुमीयेत। तस्मात्कथञ्चन स्थितिमतः प्रतिक्षणं विवर्तोऽपिनान्यथा। प्रभवादेरयोगात् कुतःप्रेत्यभावादिः? सत्यपि हेतुफलभावेऽकारणकार्यान्तरवत् सन्ततिर्न स्यात्, अतादात्म्याविशेषात् । तत्स्वभावविशेषावक्लृप्तौ तादात्म्ये कोऽपरितोषः ?, विरोधस्य सर्वथाऽपि अपरिहार्यत्वात् । तत्सन्तानापेक्षया प्रेत्यभावादिमामंस्त, ज्ञानज्ञेययोः प्रतिक्षणं विलक्षणत्वात्।नवैप्रत्यभिज्ञानादिः पुरुषान्तरवत् अन्तरवच्च । ततः कर्मफलसम्बन्धोऽपि नानासन्तानवत् अनियमात् न युक्तिमवतरति । तत् सूक्तम् 'क्षणिकपक्षो बुद्धिमद्भिरनादरणीयः, सर्वथा अर्थक्रियाविरोधात्, नित्यत्वैकान्तवत्' । सत्येव कारणे यदि कार्य, त्रैलोक्यमेकक्षणवर्ति स्यात्, ततः सन्तानाभावात् पक्षान्तरासंभवाच्च । इति स्थितम् ।।४१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org