Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 42
________________ EXISTENCE AND NON-EXISTENCE 7 केवलं वचनाधिक्योपालम्भच्छलेन पराजयाधिकरणप्राप्तिः स्वयं निराकृतपक्षण प्रतिपक्षिणा लक्षणीयेति । प्रतिज्ञानुपयोगे शास्त्रादिष्वपि नाभिधीयेत, विशेषाभावात् । यत् सत् तत् सर्वं क्षणिकं, यथा घटः, संश्च शब्द इति त्रिलक्षणं हेतुमभिधाय यदि समर्थयते, कथमिव सन्धामतिशेते ?, तावतार्थप्रतिपत्तौ समर्थनं वा निगमनादिकं ?, यतः पराजयो न भवेत् । सत्त्वमात्रेण नश्वरत्वसिद्धौ उत्पत्तिमत्त्वकृतकत्वादिवचनम् अतिरिक्तविशेषणोपादानात् कृतकत्वप्रयत्नानन्तरीयकत्वादिषु च कप्रत्ययातिरेकात् असाधनाङ्गवचनं पराजयाय प्रभवेत्। क्वचित् पक्षधर्मत्वप्रदर्शनं संश्च शब्द इत्यविगानात्, त्रिलक्षणवचनसमर्थनं च असाधनाङ्गवचनमपजयप्राप्तिरिति व्याहतम्। तथा अन्यस्यापिप्रस्तुतेतरस्य वादिनोक्तौ इतरस्य स्वपक्षमसाधयतो विजयासंभवात् निग्रहस्थानमयुक्तम् । साधनाङ्गस्यावचनं - प्रतिवादिनापि अदोषस्योद्भावनंदोषस्यानुद्भावनं वा - अनेन प्रत्युक्तम्। विजिगीषुणोभयं कर्तव्यं स्वपरपक्षसाधनदूषणम् । अतोऽन्यतरेणासिद्धानैकान्तिकवचनेऽपि जल्पापरिसमाप्तिः । निराकृतावस्थापितविपक्षस्वपक्षयोरेव जयेतरव्यवस्था, नान्यथा, इति दर्शयन्नुभयमाह ॥७॥ कुशलाकुशलं कर्म परलोकश्च न क्वचित् । एकान्तग्रहरक्तेषु नाथ ! स्वपरवैरिषु ॥८॥ O Lord ! on the showing of all those who tenaciously stick to the extremist theses there is no distinction between a virtuous and a sinful act, nor any possibility of re-birth; these persons are (thus) verily the enemies of both what they seek to uphold and what they seek to refute (that is, their arguments are inconsequential). (8) कर्मफलसम्बन्धपरलोकादिकम् एकान्तवादिनां प्रायेणेष्टम्, तदनेकान्तप्रतिषेधेन बाध्यते । ततोऽनुष्ठानमभिमतव्याघातकृत्, सदसन्नित्यानित्यायेकान्तेषु कस्यचित् कुतश्चित् कदाचित् क्वचित् प्रादुर्भावासंभवात् । न हि सर्वात्मना सर्वस्य भूतावेव जन्म विरुद्धमपि तु सर्वथाऽभावेऽपि, व्यलीकप्रतिभासानामनुपरमप्रसङ्गात् । न केवलं स्वभावनैरात्म्ये एवायं दोषः किन्तु अन्तरुभयत्र वा निरन्वयसत्त्वेऽपि, कार्यकालमप्राप्नुवत: कारणत्वानुपपत्तेः, चिरतरातीतवत् । सति अभवतः स्वयमेव नियमेन पश्चात् भवतः तत्कार्यत्वं विरुद्धम्, कालान्तरेऽपि किं न स्यात् ?, तदभावाविशेषात्, समनन्तरवत्। समर्थे सति अभवतः पुनः कालान्तरभाविनः तत्प्रभवाभ्युपगमे कथमक्षणिकेऽर्थक्रियानुपपत्तिः ?, तत्सत्त्वासत्त्वयोरविशेषात् । कारणसामर्थ्यापेक्षिण: फलस्य कालनियमकल्पनायाम् अचलपक्षेऽपि समानः परिहारः । क्षणवर्तिन एकस्मात् कारणात् कारणस्वभावमभेदयतां विचित्रकर्मणाम् (= विचित्रकार्याणाम्) उत्पत्तौ कूटस्थेऽपि किं न स्यात् क्रमशः कार्योत्पत्तिः ? कथमत्रो Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140