Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 53
________________ 18 CRITIQUE OF AN AUTHORITY possessed of the character ‘nonbeing', somehow possessed of both, while it is somehow indescribable - all these four features characterizing it in accordance with the speaker's intention (alternatively, in accordance with the conditions of assertion) and not in an absolute fashion. (14) न अवग्रहेहादेरन्योन्यम्, स्वलक्षणविवेकैकान्ते जीवान्तरवत् स्वात्मन्यपि सन्तानभेदप्रसङ्गात् । अहमहमिकयाऽऽत्मा विवर्तान् अनुभवन् अनादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां क्वचित् चित्रवित्तिक्षणे नीलादिविशेषनिर्भासवत्आत्मभूतान्परस्परतोविविक्तान् सहक्रमभाविनो गुणपर्यायान् आत्मसात्कुर्वन् सन्नेव । तदेकत्वाभावे नीलादिविशेषनियतदर्शननानासन्तानसंवेदनक्षणवत् चित्रसंवेदनं न स्यात् । तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमैकान्ते सन्ततिरनेकपुरुषवत् । नैरन्तर्यादेरविशेषात्. सन्तानव्यतिकरोऽपि किं न स्यात् ? न हि नियामकः कश्चिद् विशेषः अन्यत्राभेदपरिणामात्। असंकरे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् । यथैकत्र समनन्तरावग्रहादिसदादिस्वभावसंकरपरिणामः तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः। अतः कथञ्चित् सदेवेष्टम् । न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः, किन्तु बुद्धिक्षणेऽपिक्वचित्ग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वात्, अन्यथा स्थूलशबलावलोकनाभावात् तदेकांशवत् । तथा च सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविविक्तात्मानः । तदन्योन्याभावमात्रं जगत्। अन्यथा सर्वथैकत्वप्रसङ्गात्, अन्वयस्य विशेषापेक्षणादभावो वा । तदिष्टमसदेव कथञ्चित् । न हि भावाभावैकान्तयोः निष्पर्यायमङ्गीकरणं युक्तम्, यथैवास्ति तथैव नास्तीति विप्रतिषेधात्। कथञ्चित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया, विपर्यये तथैवासंभवात्।सर्वथा जात्यन्तरकल्पनायां वा तदंशनिबन्धनविशेषप्रतिपत्तेरत्यन्ताभावप्रसङ्गात् । सर्वथोभयरूपत्वे वा जात्यन्तरप्रतिपत्तेरयोगात् तथा चानवस्थादिदोषानुषङ्गः । तदिष्टं स्यादुभयम् । सद्भावेतराभ्यामनभिलाप्ये वस्तुनः केवलं मूकत्वं जगतः स्यात्, विधिप्रतिषेधव्यवहारायोगात्। न हि सर्वात्मना अनभिलाप्यस्वभावं बुद्धिरध्यवस्यति। न चानध्यवसेयं प्रमितं नाम, गृहीतस्यापि तादृशस्यागृहीतकल्पत्वात् मूर्छाचैतन्यवत् । सर्वात्मना अभिधेयत्वेऽपि प्रत्यक्षतराविशेषप्रसङ्गात् । तथानभिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् । स्वपक्षविपक्षयोस्तत्त्वातत्त्वप्रदर्शनाय यत्किञ्चित् प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजानातीति किमप्येतत् महाद्भुतम् । तत्कृतां वस्तुसिद्धिमुपजीवति, न च तद्वाच्यतां चेति स्वदृष्टिरागमात्रम्, अनवस्थानुषङ्गात् ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140