________________
18
CRITIQUE OF AN AUTHORITY
possessed of the character ‘nonbeing', somehow possessed of both, while it is somehow indescribable - all these four features characterizing it in accordance with the speaker's intention (alternatively, in accordance with the conditions of assertion) and not in an absolute fashion. (14)
न अवग्रहेहादेरन्योन्यम्, स्वलक्षणविवेकैकान्ते जीवान्तरवत् स्वात्मन्यपि सन्तानभेदप्रसङ्गात् । अहमहमिकयाऽऽत्मा विवर्तान् अनुभवन् अनादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां क्वचित् चित्रवित्तिक्षणे नीलादिविशेषनिर्भासवत्आत्मभूतान्परस्परतोविविक्तान् सहक्रमभाविनो गुणपर्यायान् आत्मसात्कुर्वन् सन्नेव । तदेकत्वाभावे नीलादिविशेषनियतदर्शननानासन्तानसंवेदनक्षणवत् चित्रसंवेदनं न स्यात् । तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमैकान्ते सन्ततिरनेकपुरुषवत् । नैरन्तर्यादेरविशेषात्. सन्तानव्यतिकरोऽपि किं न स्यात् ? न हि नियामकः कश्चिद् विशेषः अन्यत्राभेदपरिणामात्। असंकरे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् । यथैकत्र समनन्तरावग्रहादिसदादिस्वभावसंकरपरिणामः तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः। अतः कथञ्चित् सदेवेष्टम् । न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः, किन्तु बुद्धिक्षणेऽपिक्वचित्ग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वात्, अन्यथा स्थूलशबलावलोकनाभावात् तदेकांशवत् । तथा च सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविविक्तात्मानः । तदन्योन्याभावमात्रं जगत्। अन्यथा सर्वथैकत्वप्रसङ्गात्, अन्वयस्य विशेषापेक्षणादभावो वा । तदिष्टमसदेव कथञ्चित् । न हि भावाभावैकान्तयोः निष्पर्यायमङ्गीकरणं युक्तम्, यथैवास्ति तथैव नास्तीति विप्रतिषेधात्। कथञ्चित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया, विपर्यये तथैवासंभवात्।सर्वथा जात्यन्तरकल्पनायां वा तदंशनिबन्धनविशेषप्रतिपत्तेरत्यन्ताभावप्रसङ्गात् । सर्वथोभयरूपत्वे वा जात्यन्तरप्रतिपत्तेरयोगात् तथा चानवस्थादिदोषानुषङ्गः । तदिष्टं स्यादुभयम् । सद्भावेतराभ्यामनभिलाप्ये वस्तुनः केवलं मूकत्वं जगतः स्यात्, विधिप्रतिषेधव्यवहारायोगात्। न हि सर्वात्मना अनभिलाप्यस्वभावं बुद्धिरध्यवस्यति। न चानध्यवसेयं प्रमितं नाम, गृहीतस्यापि तादृशस्यागृहीतकल्पत्वात् मूर्छाचैतन्यवत् । सर्वात्मना अभिधेयत्वेऽपि प्रत्यक्षतराविशेषप्रसङ्गात् । तथानभिधेयत्वेऽपि सत्येतरयोरभेदः स्यात् । स्वपक्षविपक्षयोस्तत्त्वातत्त्वप्रदर्शनाय यत्किञ्चित् प्रणयन् वस्तु सर्वथानभिधेयं प्रतिजानातीति किमप्येतत् महाद्भुतम् । तत्कृतां वस्तुसिद्धिमुपजीवति, न च तद्वाच्यतां चेति स्वदृष्टिरागमात्रम्, अनवस्थानुषङ्गात् ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org