________________
EXISTENCE AND NON-EXISTENCE क्षणक्षयस्वलक्षणसंवेदनादिवत् । तथा चायातमचेतनत्वं जगतः । सहस्मृतिरयुक्तैव, तन्नामाक्षरमात्राणामपि क्रमशोऽध्यवसानात् । अन्यथा संकुला प्रतिपत्तिः स्यात् । नाम्नो नामान्तरेण विनापि स्मृतौ केवलार्थव्यवसायः किंन स्यात् ? तन्नामान्तरपरिकल्पनायामनवस्था। तदयमशब्दं सामान्य व्यवस्यन् स्वलक्षणमपि व्यवस्येत्, भेदाभावात् । सामान्यवत् स्वलक्षणमध्यवस्यन् अभिलापेन योजयेत् । ततो न किञ्चित् प्रमेयमनभिलाप्यं नाम । प्रत्यक्षस्यानभिलाप्यत्वेस्मार्तंशब्दानुयोजनंदृष्टसामान्यव्यवसायोयद्यपेक्षेतसोऽर्थोव्यवहितो भवेत् । तदिन्द्रियज्ञानात् सामान्यव्यवसायो न स्यात्, प्रागिवाजनकत्वात् । तदन्तरेणापि दर्शनम् ‘अयं गौः' इति निर्णयः स्यात् । अनभिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृति: ?, अत्यन्तभेदात् । शब्दार्थयोः सम्बन्धस्यास्वाभाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् तदर्थं वा ?, यतोऽयं व्यवसायः । चक्षुरादिज्ञानस्य कथञ्चिव्यवसायात्मकत्वाभावे दृष्टसजातीयस्मृतिर्न स्यात्, दानहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्यसंवेदनवत् क्षणक्षयानुभवनवत् वा। प्रत्यक्षेऽभिलापसंसर्गविच्छेदे कुतः तद्विकल्पाभिलापसंयोजनं यतः सामान्यमभिलाप्यं स्यात् । न च ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदात् विषयस्वभावाभेदाभावः, सकृत् एकार्थोपनिबद्धदर्शनप्रत्यासन्नेतरपुरुषज्ञानविषयवत् । तथा च मन्दप्रतिभासिनि तत्सङ्केतव्यवहारनियमकल्पनायामपि कथञ्चिदभिधेयत्वं वस्तुनः सिद्धम् । इत्यलं प्रसङ्गेन । तस्मादवाच्यतैकान्ते यदवाच्यमित्यभिधानं तदसमञ्जसम्, स्वलक्षणमनिर्देश्यमित्यादिवत् स्ववचनविरोधात् ॥१३॥
Comment on verse 13 This verse – repeated ten times (i.e. once in each section)- is not of much intrinsic importance. But it does throw some indirect light on two typical notions of Jaina philosophy. For by criticizing the doctrine of both absolute being and absolute nonbeing' Samantabhadra is suggesting that in any controversy the Jaina synthesis of a thesis and an antithesis is not mere mechanical juxtaposition of this thesis and this antithesis; and by criticizing the doctrine of absolute indescribability' he is suggesting that the Jaina characterizes an empirical phenomenon as indescribable in no more than a rather technical sense.
14-16 Verses कथञ्चित् ते सदेवेष्टं कथञ्चिद् असदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा ॥१४॥
On your showing, on the other hand, an entity is somehow possessed of the character "being', somehow
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org