Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 68
________________ 33 ONENESS AND SEPARATENESS If cognition does not share with the thing cognized even the universal character 'being', both cognition and the thing cognized turn out to be something nonentitative. Certainly, in the absence of cognition how can our opponent speak of the thing cognized - whether external or internal ? (30) विषयिणो विषयात् कथञ्चित् स्वभावभेदेऽपि सदाद्यात्मना तादात्म्यं बोधाकारस्येव विषयाकारात्, विशेषाभावात् । अन्यथा ज्ञानमवस्तु एव खपुष्पवत् । तदभावे बहिरन्तर्वा ज्ञेयमेव न स्यात्, तदपेक्षत्वात् ॥३०॥ सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते। सामान्याभावतस्तेषां मृषैव सकला गिरः॥३१॥ Certain other people are of the view that words denote universal characters without possessing the capacity to describe a real particular object (distinguished by its own specific characters); and since they (on the other hand) declare the universal characters to be something nonentitative they are forced to conclude that all verbal utterance whatsoever is a falsity. (31) विशेषाणामशक्यसमयत्वात्, असंकेतितानभिधानात्, विशेषदर्शनवत् तद्बुद्धौ अप्रतिभासनात्, अर्थसन्निधानानपेक्षणाच्च स्वलक्षणमनभिधेयम् । सामान्यमवस्तु उच्यते इति वस्तु नोच्यते इति स्यात् । ततः किं शब्दोच्चारणेन सङ्केतेन वा ? 'गो'शब्दोऽपि गां नाभिधत्ते यथा अश्व'शब्दः । तथा च वस्तुनोऽनभिधाने मौनं यत्किञ्चिद्वा वचनमाचरेत्, विशेषाभावात् । अथास्ति विशेषः, कथं स्वार्थं नाभिदधीत ? न वै परमार्थंकतानत्वात् अभिधाननियमः किन्तु उपादानविशेषात् इत्यपि वार्तम्, अविकल्पेऽपि तथैव प्रसङ्गात् । तदेवमवधारितात्मकं वस्तुस्वलक्षणमापनीपद्येत।नावश्यमिन्द्रियज्ञानमर्थसन्निधानमपेक्षते, विप्लवाभावप्रसङ्गात् । नापि विशदात्मकमेव, दूरेऽपि तथा प्रतिभासप्रसङ्गात्, यथाऽऽरात् । क्षणभङ्गादिसाधनवचनमन्यद्वा न किञ्चित् सत्यं स्यात्, वक्त्रभिप्रेतमात्रसूचितत्वात्, प्रधानेश्वरादिसाधनवाक्यवत्।सदर्थाप्रतिपादनाद्वानक्षणभङ्गादिसाधनवचनं विपक्षदूषणवचनं वा सत्यम्, प्रसिद्धालीकवचनवत्। दृश्यविकल्प्याकारयोः कथञ्चिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचेतोधर्मादिक्षणवत् कथं संशीतिमतिवर्तेत ?, विकल्पानां चावधास्नुविषयत्वात् । सोऽयमविकल्पेतरराश्योः अर्थेतरविषयत्वमन्यद्वा स्वांशमात्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140