Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 51
________________ 16 CRITIQUE OF AN AUTHORITY described in verses 101 ff.) can also not maintain that the two (viz. 'absolute being' and 'absolute nonbeing') characterize one and the same phenomenon, for such a position will be self-contradictory. And if they maintain that the phenomena that are there are absolutely indescribable, then even to say that a phenomenon is indescribable becomes an impossibility on their part. (13) भावाभावयोरेकतरप्रतिक्षेपैकान्तपक्षोपक्षिप्तदोषपरिजिहीर्षया सदसदात्मकंसर्वमभ्युपगच्छतोऽपिवाणी विप्रतिषिध्येत, तयोः परस्परपरिहारस्थितिलक्षणत्वात्। न हि सर्वात्मना कञ्चिदर्थसन्तं तथैवासन्तमाचक्षाणः स्वस्थः,स्वाभ्युपेतेतरनिरासविधानकरणात्, शून्यावबोधवत् । त्रैलोक्यं व्यक्तेरपैति, नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति, विनाशप्रतिषेधादिति वा। तदन्यथापेतमन्यथास्तीति स्याद्वादावलम्बनमन्धसर्पबिलप्रवेशन्यायमनुसरति । योऽपि पक्षत्रयोपक्षिप्तदोषजिहासया सर्वथाऽवक्तव्यं तत्त्वमवलम्बेत सोऽपि कथमवक्तव्यं ब्रूयात् ? नैष दोषः, स्वलक्षणमनिर्देश्यम्' 'प्रत्यक्षं कल्पनापोढम्' इत्यादिवत् । तदप्यसत् यदसतः समुदाहृतम् । यथैवाक्षविषयेऽभिधानं नास्ति तथाक्षज्ञाने विषयो नैवास्ति । ततस्तत्र प्रतिभासमानेऽपि न प्रतिभासेत । न केवलं विषयबलात् दृष्टेरुत्पत्तिः, अपि तु चक्षुरादिशक्तेश्च । तदर्थवत् करणमनुकर्तुमर्हति, न चार्थम्, विशेषाभावात् । दर्शनस्य कारणान्तरसद्भावेऽपि विषयाकारानुकारित्वमेव सुतस्येव पित्राकारानुकरणमित्यपि वार्तम्, स्वोपादानमात्रानुकरणप्रसङ्गात् । उभयाकारानुकरणेऽपि रूपादिवदुपादानस्यापि विषयतापत्तिः, अतिशयाभावात्, वर्णादेर्वा तद्वदविषयत्वप्रसङ्गात् । तज्जन्मरूपाविशेषेऽपि तदध्यवसायनियमात् बहिरर्थविषयत्वमित्यसारम् । दर्शनस्यानध्यवसायात्मकत्वात् अदोषोऽयम्, प्रत्यक्षस्याध्यवसायहेतुत्वात् इत्यनिरूपिताभिधानम्, तत्राभिलापाभावात् । तदभावेऽप्यध्यवसायकल्पनायां प्रत्यक्षं किं नाध्यवस्येत् ? यथैव हि प्रत्यक्षस्याभिलापसंसर्गयोग्यता नास्ति तथा तत्समनन्तरभाविनोऽपि विकल्पस्य । तथाहि किञ्चित् केनचित् विशिष्टं गृह्यमाणं विशेषणविशेष्यतत्सम्बन्धव्यवस्थाग्रहणमपेक्षते दण्डिवत्। नचायमियतो व्यापारान् कर्तुं समर्थः, प्रत्यक्षबलोत्पत्तेरविचारकत्वात्, प्रत्यक्षवत् । नैतदेवम्, शब्दार्थविकल्पवासनाप्रभवत्वात् मनोविकल्पस्य ततस्तर्हि कथमक्षबुद्धेः रूपादिविषयत्वनियमः ? तदभ्युपगमे वा तदभिलापसंसर्गोऽपि तद्वत् अनुमीयेत । तस्मादयं किञ्चित् पश्यन् तत्सदृशं पूर्वं दृष्टं न स्मर्तुमर्हति, तन्नामविशेषास्मरणात् । तदस्मरनैव तदभिधानं प्रतिपद्यते। तदप्रतिपत्तौ तेन तन्न योजयति। तदयोजयन् नाध्यवस्यतीति न क्वचिद् विकल्प:शब्दोवेत्यविकल्पाभिधानंजगत्स्यात्। तथा हि बहिरन्तर्वा गृहीतमप्यगृहीतकल्पं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140