Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 41
________________ CRITIQUE OF AN AUTHORITY चैतन्यकरणपाटवयोरेव साधकतमत्वम् । सहकारिकारणान्तरं न वै नियतमपेक्षणीयम्, नक्तंचरादेः संस्कृतचक्षुषो वाऽनपेक्षितालोकसनिधेः रूपोपलम्भात् । न चैवं संवित्करणपाटवयोरप्यभावे विवक्षामात्रात् कस्यचित् वचनप्रवृत्तिः प्रसज्यते, संवित्करणवैकल्ये यथाविवक्षं वाग्वृत्तेरभावात् । न च दोषजातिस्तद्धेतुः यतस्तां वाणी नातिवर्तेत, तत्प्रकर्षापकर्षानुविधानाभावात् बुद्धयादिवत् । प्रमाणतः सिद्धं प्रसिद्धम् । तदेव कस्यचित् बाधनं युक्तम् । विशेषणमेतत् परमतापेक्षम्, अप्रसिद्धेनापि अनित्यत्वाद्येकान्तधर्मेण बाधाऽकल्पनात्। नऋतेप्रमाणात्प्रतिबन्धसिद्धेरभ्युपगमात्।नखलुपरेषां प्रत्यक्षमग्निधूमयोः क्षणभङ्गसद्भावयोर्वा साकल्येन व्याप्ति प्रति समर्थम्, अविचारकत्वात् सन्निहितविषयत्वाच्च । न चानुमानम्, अनवस्थानुषङ्गात् । परोक्षान्त विना नः तर्केण सम्बन्धो व्यवतिष्ठेत । तदप्रमाणत्वे न लैङ्गिकं प्रमाणम्, समारोपव्यवच्छेदाविशेषात् । अधिगमोऽपि व्यवसायात्मैव, तदनुत्पत्तौ सतोऽपि दर्शनस्य साधनान्तरापेक्षया सन्निधानाभेदात् सुषुप्तचैतन्यवत् ।।६।। त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम्। आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते॥७॥ Those who are alien to your nectar-like doctrine, are the upholders of the utterly extre:nist theses, are the victims of their own vainglorious claims to be an authority (on the subject-matter they deal with) are the persons who seek to establish something that is contradicted by what is seen to be the case. (7) अनेकान्तात्मकवस्तुसाक्षात्करणं बहिरन्तश्च सकलजगतसाक्षीभूतं विपक्षे । प्रत्यक्षविरोधलक्षणमनेन दक्षयति । न हि किञ्चित् रूपान्तरविकलं सदसन्नित्यानित्यायेकान्तरूपं संवेदनमन्यद्वा संपश्यामो यथात्र प्रतिज्ञायते, चित्रज्ञानवत् कथञ्चिदसङ्कीर्णविशेषैकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेक्षणात् । सामान्यविशेषैकात्मनः संवित्तिरेकान्तस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनार्हतकल्पनाम् अस्तंगमयतीति किंनःप्रमाणान्तरेण ? नहि दृष्टाज्ज्येष्ठंगरिष्ठमिष्टम्, तदभावे प्रमाणान्तराप्रवृत्तेः, समारोपविच्छे दविशेषात्, अन्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच्च। अनेकान्तैकान्तयोः उपलम्भानुपलम्भयोः एकत्वप्रदर्शनार्थं तावदुभयमाह मतान्तरप्रतिक्षेपार्थवा। यदाह - साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतौ उभयप्रतिपादनंपक्षादिवचनं वा निग्रहस्थानमिति - न तत् युक्तम्, साधनसामर्थ्येन विपक्षव्यावृत्तिलक्षणेन पक्षप्रसाधयतः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140