________________
CRITIQUE OF AN AUTHORITY चैतन्यकरणपाटवयोरेव साधकतमत्वम् । सहकारिकारणान्तरं न वै नियतमपेक्षणीयम्, नक्तंचरादेः संस्कृतचक्षुषो वाऽनपेक्षितालोकसनिधेः रूपोपलम्भात् । न चैवं संवित्करणपाटवयोरप्यभावे विवक्षामात्रात् कस्यचित् वचनप्रवृत्तिः प्रसज्यते, संवित्करणवैकल्ये यथाविवक्षं वाग्वृत्तेरभावात् । न च दोषजातिस्तद्धेतुः यतस्तां वाणी नातिवर्तेत, तत्प्रकर्षापकर्षानुविधानाभावात् बुद्धयादिवत् । प्रमाणतः सिद्धं प्रसिद्धम् । तदेव कस्यचित् बाधनं युक्तम् । विशेषणमेतत् परमतापेक्षम्, अप्रसिद्धेनापि अनित्यत्वाद्येकान्तधर्मेण बाधाऽकल्पनात्। नऋतेप्रमाणात्प्रतिबन्धसिद्धेरभ्युपगमात्।नखलुपरेषां प्रत्यक्षमग्निधूमयोः क्षणभङ्गसद्भावयोर्वा साकल्येन व्याप्ति प्रति समर्थम्, अविचारकत्वात् सन्निहितविषयत्वाच्च । न चानुमानम्, अनवस्थानुषङ्गात् । परोक्षान्त विना नः तर्केण सम्बन्धो व्यवतिष्ठेत । तदप्रमाणत्वे न लैङ्गिकं प्रमाणम्, समारोपव्यवच्छेदाविशेषात् । अधिगमोऽपि व्यवसायात्मैव, तदनुत्पत्तौ सतोऽपि दर्शनस्य साधनान्तरापेक्षया सन्निधानाभेदात् सुषुप्तचैतन्यवत् ।।६।।
त्वन्मतामृतबाह्यानां सर्वथैकान्तवादिनाम्। आप्ताभिमानदग्धानां स्वेष्टं दृष्टेन बाध्यते॥७॥
Those who are alien to your nectar-like doctrine, are the upholders of the utterly extre:nist theses, are the victims of their own vainglorious claims to be an authority (on the subject-matter they deal with) are the persons who seek to establish something that is contradicted by what is seen to be the case. (7)
अनेकान्तात्मकवस्तुसाक्षात्करणं बहिरन्तश्च सकलजगतसाक्षीभूतं विपक्षे । प्रत्यक्षविरोधलक्षणमनेन दक्षयति । न हि किञ्चित् रूपान्तरविकलं सदसन्नित्यानित्यायेकान्तरूपं संवेदनमन्यद्वा संपश्यामो यथात्र प्रतिज्ञायते, चित्रज्ञानवत् कथञ्चिदसङ्कीर्णविशेषैकात्मनः सुखादिचैतन्यस्य वर्णसंस्थानाद्यात्मनः स्कन्धस्य च प्रेक्षणात् । सामान्यविशेषैकात्मनः संवित्तिरेकान्तस्यानुपलब्धिर्वा सर्वतः सिद्धा चक्षुरादिमतामनार्हतकल्पनाम् अस्तंगमयतीति किंनःप्रमाणान्तरेण ? नहि दृष्टाज्ज्येष्ठंगरिष्ठमिष्टम्, तदभावे प्रमाणान्तराप्रवृत्तेः, समारोपविच्छे दविशेषात्, अन्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच्च। अनेकान्तैकान्तयोः उपलम्भानुपलम्भयोः एकत्वप्रदर्शनार्थं तावदुभयमाह मतान्तरप्रतिक्षेपार्थवा। यदाह - साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतौ उभयप्रतिपादनंपक्षादिवचनं वा निग्रहस्थानमिति - न तत् युक्तम्, साधनसामर्थ्येन विपक्षव्यावृत्तिलक्षणेन पक्षप्रसाधयतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org