SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ EXISTENCE AND NON-EXISTENCE यदि विप्रकृष्टार्थप्रत्यक्षत्वमर्हतः साध्यते, पक्षदोषोऽप्रसिद्धविशेषणत्वम् । तत एव व्याप्तिर्न सिद्धयेत्। अनर्हतश्चेत्, अनिष्टानुषङ्गोऽपि। कः पुनः सामान्यात्मातदुभयव्यतिरेकेण, यस्य विवक्षितार्थप्रत्यक्षत्वम् ? इत्येतद्विकल्पजालं शब्दनित्यत्वेऽपि समानम्, न केवलं सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधने संशीतौ वा । तदयमनुमानमुद्रां भिनत्ति । वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति स्यादप्रसिद्धविशेषणः पक्षः, इतरथा अनिष्टानुषङ्गः । कीदृक् पुनः सामान्यं नाम यदुभयदोषपरिहाराय प्रकल्प्येत ? सर्वगतत्वसाधनेऽपि समानम् । अविवक्षितविशेषस्य पक्षीकरणे समः समाधिः, इत्यलमप्रतिष्ठितमिथ्याविकल्पौघैः ।।५।। स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥६॥ And such an omniscient personage you alone are whose utterance is neither in conflict with logic nor in conflict with scripture. As for the proof of such an absence of conflict, it is the circumstance that what you seek to establish is never contradicted by what is known to be the case. (6) विप्रकर्ण्यपि भिन्नलक्षणसम्बन्धित्वादिना कस्यचित् प्रत्यक्षम्। सोऽत्र भवान् अर्हन्नेव, अन्येषां न्यायागमविरुद्धभाषित्वात् । विचित्राभिसन्धितया व्यापारव्याहारादिसाङ्कZण क्वचिदप्यतिशयानिर्णये कैमर्थक्यात् विशेषेष्टिः, ज्ञानवतोऽपि विसंवादात्, व पुनराश्वासं लभेमहि ? न चैवंवादिनः किञ्चिदनुमानं नाम, निरभिसन्धीनामपि बहुलं कार्यस्वभावानियमोपलम्भात्, सति काष्ठादिसामग्रीविशेष क्वचिदुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मण्यादिकारणकलापेऽपि संभवात् । यज्जातीयो यतः संप्रेक्षितः तज्जातीयात् तादृगिति दुर्लभनियमतायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णीयेत ? वृक्षः शिंशपात्वात् इति लताचूतादेरपि क्वचिदेव दर्शनात् प्रेक्षावतां किमिव निःशङ्कं चेतः स्यात् ? तदेतददृष्टसंशयैकान्तवादिनां विदग्धमर्कटानामिव स्वलालभक्षणम् । यत्नतः परीक्षितं कार्यं कारणं नातिवर्तते इति चेत्, स्तुतं प्रस्तुतम् । ततोऽयं प्रतिपत्तुरपराधो नानुमानस्येति अनुकूलमाचरति । तदेवं तत् सुनिश्चितासंभवद्बाधकप्रमाणत्वम् अर्हत्येव सकलज्ञत्वंसाधयति, नान्यत्र, इत्यविरोध इत्यादिना स्पष्टयति। तत्रेष्टं मतंशासनमित्युपचर्यते, निराकृतवाचोऽपि क्वचिदविप्रतिषेधात् । नियमाभ्युपगमे सुषुप्त्यादावपि निरभिप्रायप्रवृत्तिर्न स्यात् । प्रतिसंविदिताकारेच्छा तदा संभवन्ती पुनः स्मर्येत वाञ्छान्तरवत् । ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001124
Book TitleAptamimansa Critique of an Authority Bhasya
Original Sutra AuthorSamantbhadracharya
AuthorAkalankadev, Nagin J Shah
PublisherJagruti Dilip Sheth Dr
Publication Year1999
Total Pages140
LanguageEnglish, Sanskrit
ClassificationBook_English, Philosophy, & Devotion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy