Book Title: Aptamimansa Critique of an Authority Bhasya Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah Publisher: Jagruti Dilip Sheth DrPage 45
________________ 10 CRITIQUE OF AN AUTHORITY क्रियते, न पुनः शब्द एव, इति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम्। सा यदिश्रवणज्ञानोत्पत्तिः, सैव कथं प्राक् सती यत्नतः कर्तव्या ? योग्यतायां समानश्चर्चः । तदावरणविगमः प्राक किमभूत् ? भूतौ वा किं यत्नेन ? विशेषाधानमपि तादृगेव, कर्मकर्तृकरणानां प्रागभावाभावात् । न कश्चित् विशेषहेतुः, ताल्वादयो व्यञ्जकाः न पुनश्चक्रादयोऽपीति । न हि व्यञ्जकव्यापृतिनियमेन व्यङ्ग्यं सन्निधापयति । नायं दोषः सर्वगतत्वात् वर्णानामित्यपि वार्तम्, अन्यत्रापि तथाभावानुषङ्गात् । इष्टत्वाददोषोऽयम् । न, कारणव्यापारेष्वपि चोद्यानिवृत्तेः । एतेनावस्था प्रत्युक्ता । तद्विशेषैकान्ते तद्वतोऽनुपयोगः, तावतेतिकर्तव्यतास्थानात् । अभेदैकान्ते पूर्ववत् प्रसङ्गः । परिणामेऽप्येष पर्यनुयोगः । तदभिन्नानांक्रमशो वृत्तिर्मा भूत् । भिन्नानां व्यपदेशोऽपिमा भूत, सम्बन्धासिद्धेरनुपकारकत्वात्। उपकारेऽपि सर्वं समानमनवस्था च । विनाशानभ्युपगमे तस्य किंकृतमश्रवणम् ?, तदा आत्मानमखण्डयतः कस्यचिदावरणत्वायोगात्, आवृतानावृतस्वभावयोरभेदानुपपत्तेः । तयोरभेदे वा शब्दस्य श्रुतिरश्रुतिर्वेत्येकान्तः । तमसाऽपि घटादेरखण्डने पूर्ववत् उपलब्धिः किन भवितुमर्हति? स्वसंवित्त्युत्पतौ कारणान्तरापेक्षा माभूत तत्करणसमर्थस्य । अन्यथा तदसामर्थ्यमखण्डयदकिञ्चित्करं किं सहकारिकारणं स्यात् ? तत्खण्डने वा स्वभावहानिः, अव्यतिरेकात्। व्यतिरेके व्यपदेशानुपपत्तिः, इति पूर्ववत् सर्वम् । वर्णानां व्यापित्वात् नित्यत्वाच्च क्रमश्रुतिरनुपपनैव, समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् । वक्तश्रोतृविज्ञानयोः तत्कारणकार्ययोः क्रमवृत्तिमपेक्ष्य परिणामिनां क्रमोत्पत्तिप्रतिपत्त्योः न किञ्चिद् विरुद्धं पश्यामः । सर्वगतानामेष क्रमो दुष्कर: स्यात् । क्षणिकेष्वेव करणाङ्गहारादिषु प्रत्यभिज्ञानात् विरुद्धो हेतुः। तत्क्रियैकत्वेऽपिकिमिदानीमनेकंस्यात्?, सर्ववर्णैकत्वप्रसङ्गात्। शक्यंहिवक्तुम् - अभिव्यञ्जकभेदात् वैश्वरूप्यम्, जलचन्द्रवत् । क्वचित् प्रत्यक्षविरोधे तदन्यत्राप्यविरोधः कुतः ? तदयं ताल्वादिव्यापारजनितश्रावणस्वभावं परित्यज्य विपरीतस्वभावमासादयन्नपि नित्यश्चेन किञ्चिदनित्यम् । युगपत् प्रतिनियतदेशमन्द्रतारश्रुतेः कस्यचिदेकत्वे न क्वचिदनेकत्वसिद्धिः । न हि कथञ्चित् क्वचित् प्रत्यवमर्शो न स्यात् वर्णवत् । तच्छेषविशेषबुद्धेरभिव्यञ्जकहेतुत्वप्रक्लृप्तौ सर्वसमञ्जसंप्रेक्षामहे। तदेतेषां पुद्गलानां करणसन्निपातोपनिपाते श्रावणस्वभावः शब्दः पूर्वापरकोटयोरसन् प्रयत्नानन्तरीयको घटाविदवत् । पुद्गलस्वभावत्वे दर्शनविस्तारविक्षेपप्रतिघातकर्णपूरणैकश्रोत्रप्रवेशाधुपालम्भो गन्धपरमाणुकृतप्रतिविधानतयोपेक्षामर्हति । कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनाम् अस्तं गमयति । निश्छिद्रनिर्गमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्पर्शादिवत् न विरुध्येरन् । अतो यत्नजनितवर्णाद्यात्मा श्रावणमध्यस्वभावः प्राक् पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः । तत्प्राक्प्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140