________________
10
CRITIQUE OF AN AUTHORITY क्रियते, न पुनः शब्द एव, इति स्वरुचिविरचितदर्शनप्रदर्शनमात्रम्। सा यदिश्रवणज्ञानोत्पत्तिः, सैव कथं प्राक् सती यत्नतः कर्तव्या ? योग्यतायां समानश्चर्चः । तदावरणविगमः प्राक किमभूत् ? भूतौ वा किं यत्नेन ? विशेषाधानमपि तादृगेव, कर्मकर्तृकरणानां प्रागभावाभावात् । न कश्चित् विशेषहेतुः, ताल्वादयो व्यञ्जकाः न पुनश्चक्रादयोऽपीति । न हि व्यञ्जकव्यापृतिनियमेन व्यङ्ग्यं सन्निधापयति । नायं दोषः सर्वगतत्वात् वर्णानामित्यपि वार्तम्, अन्यत्रापि तथाभावानुषङ्गात् । इष्टत्वाददोषोऽयम् । न, कारणव्यापारेष्वपि चोद्यानिवृत्तेः । एतेनावस्था प्रत्युक्ता । तद्विशेषैकान्ते तद्वतोऽनुपयोगः, तावतेतिकर्तव्यतास्थानात् । अभेदैकान्ते पूर्ववत् प्रसङ्गः । परिणामेऽप्येष पर्यनुयोगः । तदभिन्नानांक्रमशो वृत्तिर्मा भूत् । भिन्नानां व्यपदेशोऽपिमा भूत, सम्बन्धासिद्धेरनुपकारकत्वात्। उपकारेऽपि सर्वं समानमनवस्था च । विनाशानभ्युपगमे तस्य किंकृतमश्रवणम् ?, तदा आत्मानमखण्डयतः कस्यचिदावरणत्वायोगात्, आवृतानावृतस्वभावयोरभेदानुपपत्तेः । तयोरभेदे वा शब्दस्य श्रुतिरश्रुतिर्वेत्येकान्तः । तमसाऽपि घटादेरखण्डने पूर्ववत् उपलब्धिः किन भवितुमर्हति? स्वसंवित्त्युत्पतौ कारणान्तरापेक्षा माभूत तत्करणसमर्थस्य । अन्यथा तदसामर्थ्यमखण्डयदकिञ्चित्करं किं सहकारिकारणं स्यात् ? तत्खण्डने वा स्वभावहानिः, अव्यतिरेकात्। व्यतिरेके व्यपदेशानुपपत्तिः, इति पूर्ववत् सर्वम् । वर्णानां व्यापित्वात् नित्यत्वाच्च क्रमश्रुतिरनुपपनैव, समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् । वक्तश्रोतृविज्ञानयोः तत्कारणकार्ययोः क्रमवृत्तिमपेक्ष्य परिणामिनां क्रमोत्पत्तिप्रतिपत्त्योः न किञ्चिद् विरुद्धं पश्यामः । सर्वगतानामेष क्रमो दुष्कर: स्यात् । क्षणिकेष्वेव करणाङ्गहारादिषु प्रत्यभिज्ञानात् विरुद्धो हेतुः। तत्क्रियैकत्वेऽपिकिमिदानीमनेकंस्यात्?, सर्ववर्णैकत्वप्रसङ्गात्। शक्यंहिवक्तुम् - अभिव्यञ्जकभेदात् वैश्वरूप्यम्, जलचन्द्रवत् । क्वचित् प्रत्यक्षविरोधे तदन्यत्राप्यविरोधः कुतः ? तदयं ताल्वादिव्यापारजनितश्रावणस्वभावं परित्यज्य विपरीतस्वभावमासादयन्नपि नित्यश्चेन किञ्चिदनित्यम् । युगपत् प्रतिनियतदेशमन्द्रतारश्रुतेः कस्यचिदेकत्वे न क्वचिदनेकत्वसिद्धिः । न हि कथञ्चित् क्वचित् प्रत्यवमर्शो न स्यात् वर्णवत् । तच्छेषविशेषबुद्धेरभिव्यञ्जकहेतुत्वप्रक्लृप्तौ सर्वसमञ्जसंप्रेक्षामहे। तदेतेषां पुद्गलानां करणसन्निपातोपनिपाते श्रावणस्वभावः शब्दः पूर्वापरकोटयोरसन् प्रयत्नानन्तरीयको घटाविदवत् । पुद्गलस्वभावत्वे दर्शनविस्तारविक्षेपप्रतिघातकर्णपूरणैकश्रोत्रप्रवेशाधुपालम्भो गन्धपरमाणुकृतप्रतिविधानतयोपेक्षामर्हति । कर्णशष्कुल्यां कटकटायमानस्य प्रायशः प्रतिघातहेतोर्भवनाद्युपघातिनः शब्दस्य प्रसिद्धिरस्पर्शत्वकल्पनाम् अस्तं गमयति । निश्छिद्रनिर्गमनादयः सूक्ष्मस्वभावत्वात् स्नेहादिस्पर्शादिवत् न विरुध्येरन् । अतो यत्नजनितवर्णाद्यात्मा श्रावणमध्यस्वभावः प्राक् पश्चादपि पुद्गलानां नास्तीति तावानेव ध्वनिपरिणामः । तत्प्राक्प्रध्वंसाभावप्रतिक्षेपे कौटस्थ्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org