________________
EXISTENCE AND NON-EXISTENCE
9-11 Verses भावैकान्ते पदार्थानामभावानामपह्नवात्। सर्वात्मकमनाद्यन्तमस्वरूपमतावकम् ।।९।।
Those of your rivals who attribute to entities the character ‘absolute being' while repudiating the reality of all kinds of 'non-being' are forced to conclude that an entity is possessed of the form of every other entity, is beginningless, is endless, and is devoid of a form of its own. (9)
निष्पर्यायद्रव्यैकान्तपक्षेसर्वात्मकत्वादिदोषानुषङ्गः। कुतः पुनर्विशेषान् अपह्ववीत?, तत्साधनव्यभिचारात्।संविनिर्भासभेदात्भावस्वभावभेदःप्रकल्प्यते।सपुनःअभेदेऽप्यात्मनः खण्डशः प्रतिभासनात् तदन्यत्रापि विभ्रमाभावे कोशपानं विधेयम् । तदेकं चक्षुरादिज्ञानप्रतिभासभेदवशात्रूपादिव्यपदेशभाक्, ग्राह्यग्राहकसंवित्तिवत्। इतरेतराभावविकल्पोऽपि कथमयथार्थो नस्यात् ?, वर्णादिविकल्पवत्। न हि वस्तुव्यतिरिक्तम् असन्नाम, प्रमाणस्यार्थविषयत्वात् । अभावदृष्टौ हि तदवसानकारणाभावात् भावदर्शनमनवसरं प्राप्नोति । सकलशक्तिविरहलक्षणस्य निरुपाख्यस्य स्वभावकार्यादेरभावात् कुतः तत्प्रमिति: ? वस्तुनानात्वंबुद्धयादिकार्यनानात्वात्प्रतीयते।स्वभावाभेदेऽपि विविधकर्मता दृष्टा, युगपत् एकार्थोपनिबद्धदृष्टिविषयक्षणवत्। शक्तिनानात्वे प्रसवविशेषात्। स चेत् व्यभिचारी, कुतः तद्गतिः ? केवलमविद्या स्वभावदेशकालावस्थाभेदान् आत्मनि परत्र वा असतः स्वयमसती मिथ्याव्यवहारपदवीमुपनयति, यतः क्षणभङ्गिनो भिन्नसंततयः स्कन्धा विकल्प्येरन् अन्यथा वेति।प्रतिभासकार्याद्यभेदेऽपि कस्यचिदेकत्वंसाधयतीति साध्यसाधनयोरभेदे किं केन कृतं स्यात् ?, पक्षविपक्षादेरभावात् । न क्वचिदसाधना साध्यसिद्धिः, अतिप्रसङ्गात्॥९||
कार्यद्रव्यमनादि स्यात् प्रागभावस्य निह्नवे। प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनन्ततां व्रजेत् ॥१०॥
If the reality of 'prior non-being' is repudiated a produced entity turns out to be beginningless, if the character posterior non-being' is not there the same turns out to be endless. (10)
प्रागभावानभ्युपगमे घटादेरनादित्वप्रसङ्गात् पुरुषव्यापारानर्थक्यं स्यात् । कल्पयित्वापि तदभिव्यक्तिं तस्याः प्रागभावोऽङ्गीकर्तव्यः । तथाहि - सतः शब्दस्य ताल्वादिभिरभिव्यक्तिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org