________________
11
EXISTENCE AND NON-EXISTENCE क्रमयोगपद्याभ्यां स्वाकारज्ञानाद्यर्थक्रियां व्यावर्तयतीति निरुपाख्यमित्यभिप्रायः । तदानुपूर्वीकल्पनां विस्तरेण प्रतिक्षेप्स्यामः ॥१०॥
सर्वात्मकं तदेकं स्यादन्यापोहव्यतिक्रमे। अन्यत्र समवाये न व्यपदिश्येत सर्वथा ॥११॥
If the reality of 'mutual non-being' is repudiated an entity turns out to be possessed of the form of every other entity, if an entity resides in what is not its proper locus it can be characterized in no way whatsoever. (11)
Note: Vasunandin reads anyatra samavāyena for anyatra samavāye na; on this reading the latter half of the verse should be translated as : "if 'absolute nonbeing' is not there the same (i.e. an entity) can be characterized in an absolutely indiscriminate fashion." __ स्वभावान्तरात् स्वभावव्यावृत्तिरन्यापोहः । संविदो ग्राह्याकारात् कथञ्चिद् व्यावृत्तौ अनेकान्तसिद्धिः, अन्यथा सम्बन्धासिद्धिः । अव्यावृत्तौ अन्यतरस्वभावहानेर्न किञ्चित् स्यात्, विषयाकारविकलस्यानुपलब्धेः । संवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविवेकस्वभावान्तरानुपलब्धेः स्वभावव्यावृत्तिः । शबलविषयनिर्भासेऽपि परस्परव्यावृत्तिरभ्युपगमनीया, अन्यथा चित्रप्रतिभासासंभवात् तदन्यतमवत् तदालाबनस्यापि नीलादेरभेदस्वभावापत्तेः । तद्वतस्तेभ्यो व्यावृत्तिः, एकानेकस्वभावत्वाद् घटरूपादिवदित्यनुमानात् । अन्यथा द्रव्यमेव स्यात्, न रूपादयः । स्वभावैकत्वेऽपि निर्भासवैलक्षण्यं करणसामग्रीभेदमनुविदध्यात्, दूरासन्नैकार्थोपनिबद्धनानादर्शननिर्भासवत् । प्रतिपुरुषं विषयस्वभावभेदो वा, सामग्रीसम्बन्धभेदात् । अन्यथा न केवलं रूपादेरभेदः, कस्यचित् क्रमशःसम्बन्ध्यन्तरोपनिपातोऽपिस्वभावंनभेदयेत्। ततःक्रमवन्त्यपि कार्याणितत्स्वभावभेदं नानुमापयेयुः । ततो यावन्ति सम्बन्ध्यन्तराणि तावन्तः प्रत्येकं भावस्वभावभेदाः परस्परव्यावृत्ताः । न हि कस्यचित् केनचित् साक्षात् परम्परया वा सम्बन्धो नास्तीति, निरुपाख्यत्वप्रसङ्गात् । तदेवं प्रतिक्षणमनन्तपर्यायाः प्रत्येकमर्थसार्थाः । क्रमशोऽपि विच्छेदे अर्थक्रियानुपपत्तेः । स्वयमसतः तत्त्वतः क्वचिदुपकारितानुपपत्तेः । स्वकार्यात्मना भवतः प्रतिक्षेपायोगात्, स्वभावान्तरानपेक्षणात् । तस्मादयम् उत्पित्सुरेव विनश्यति, नश्वर एव तिष्ठति, स्थास्तुरेवोत्पद्यते । स्थितिरेवोत्पद्यते, विनाश एव तिष्ठति, उत्पत्तिरेव नश्यति । स्थितिरेव स्थास्यत्युत्पत्स्यते विनक्ष्यति, विनाश एव स्थास्यति उत्पत्स्यते विनक्ष्यति, उत्पत्तिरेवोत्पत्स्यते विनश्यति स्थास्यतीति न कुतश्चिद् उपरमति। भाव एव द्रवति द्रोष्यति अदुद्रुवत् । सत्तैव विशेष्यते द्रव्यक्षेत्रकालभावात्मना । ततः परस्परव्यावृत्तस्वभावान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org