Book Title: Aptamimansa Critique of an Authority Bhasya
Author(s): Samantbhadracharya, Akalankadev, Nagin J Shah
Publisher: Jagruti Dilip Sheth Dr

Previous | Next

Page 39
________________ CRITIQUE OF AN AUTHORITY शायनात् निःशेषतायां साध्यायां बुद्धरपि किं न परिक्षयः स्यात्, विशेषाभावात्, अतोऽनैकान्तिको हेतुः, इत्यशिक्षितलक्षितम्, चेतनगुणव्यावृत्तेः सर्वात्मना पृथिव्यादेरभिमतत्वात् । अदृश्यानुपलम्भादभावासिद्धिरित्ययुक्तम्, परचैतन्यनिवृत्तावारेकापत्तेः, संस्कर्तृणां पातकित्वप्रसङ्गात्, बहुलमप्रत्यक्षस्यापि रोमादेविनिवृत्तिनिर्णयात् । यदि पुनरयं निर्बन्धः सर्वत्र विप्रकर्षिणामभावासिद्धेः, तदा कृतकत्वधूमादेविनाशानलाभ्यां व्याप्तेरसिद्धेर्न कश्चिद्धेतुः । ततः शौद्धोदनिशिष्यकाणामनात्मनीनमेतत्, अनुमानोच्छेदप्रसङ्गात्। तथा हि-यस्य हानिरतिशयवती तस्य कुतश्चित् सर्वात्मना व्यावृत्तिः, यथा बुद्धयादिगुणस्याश्मनः । तथा च दोषादेर्हानिरतिशयवती कुतश्चित् निवर्तयितुमर्हति सकलंकलङ्कम्, इति कथमकलङ्कसिद्धिर्न भवेत् ? मणेर्मलादेर्व्यावृत्तिः क्षयः, सतोऽत्यन्तविनाशानुपपत्तेः । तादृगात्मनोऽपि कर्मणो निवृत्तौ परिशुद्धिः । कर्मणोऽपि वैकल्यमात्मकैवल्यमस्त्येव । ततो नातिप्रसज्यते । प्रतिपक्ष एवात्मनामागन्तुको मलः परिक्षयी स्वनि सनिमित्तविवर्धनवशात् ।।४॥ ननु निरस्तोपद्रवः सन् आत्मा कथमकलकोऽपि विप्रकर्षिणमर्थं प्रत्यक्षीकुर्यात् ? सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद् यथा। अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः ॥५॥ The objects that are minute, concealed or distant must be amenable to somebody's perception, tecause they are amenable to inferential knowledge, just like fire etc. - it is this argument that establishes the existence of an omniscient personage. (5) स्वभावकालदेशविप्रकर्षिणामनुमेयत्वमसिद्धमित्यनुमानमुत्सारयति, यावान् कश्चित् भावः ससर्वःक्षणिक इत्यादिव्याप्तेरसिद्धौ प्रकृतोपसंहारायोगात्, अविप्रकर्षिणामनुमितेरानर्थक्यात् । सत्त्वादेरनित्यत्वादिना व्याप्तिमिच्छतां सिद्धमनुमेयत्वमनवयवेनेति न किञ्चित् व्याहतं पश्यामः । तेऽनुमेया न कस्यचित् प्रत्यक्षाश्च स्युः, किं व्याहन्यते ?, इति समानमग्न्यादीनाम्। तथा चानुमानोच्छेदः स्यात्। तदभ्युपगमे स्वसंवेद्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतया ? इति, न किञ्चिदेतत् तया नैतत्तया वा अयमभ्युपगन्तुमर्हति। तदेवं प्रमेयत्वसत्त्वादिर्यत्र हेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिषे मर्हति संशयितुं वा? धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानेकान्तिकत्वात् कथं सकलविदि सत्त्वसिद्धि: ? इति ब्रुवन्नपि देवानांप्रियः तद्धर्मिस्वभावं न लक्षयति । शब्दानित्यत्वसाधनेऽपि कृतकत्वादौ अयं विकल्पः किं न स्यात् ? विमत्यधिकरणभावापन्नविनाशधर्मिधर्मत्वे कार्यत्वादेरसंभवद्भाधकत्वादेरपि संदिग्धसद्भावधर्मिधर्मत्वं सिद्धं बोद्धव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140