________________
EXISTENCE AND NON-EXISTENCE नखलु प्रत्यक्षं सर्वज्ञप्रमाणान्तराभावविषयम्, अतिप्रसङ्गात्। नानुमानम्, असिद्धेः । प्रमाणत: सिद्धं नाऽनात्मसिद्धं नाम, अन्यथा परस्यापि न सिद्धयेत् । तदिमे स्वयमेकेन प्रमाणेन सर्वं सर्वज्ञरहितं पुरुषसमूहं संविदन्त एवात्मानं निरस्यन्तीति व्याहतमेतत् । तीर्थच्छेदसम्प्रदायानां तथा सर्वमवगतमिच्छतामाप्तता नास्ति, परस्परविरुद्धाभिधानात् । एकानेकप्रमाणवादिनां स्वप्रमाव्यावृत्तेः, अन्यथानकान्तिकत्वात् । सर्वप्रमाणविनिवृत्तेः, इतरथा संप्रतिपत्तेः । वागक्षबुद्धीच्छापुरुषत्वादिकं क्वचिदनाविलज्ञानं निराकरोति, न पुनस्तत्प्रतिषेधवादिषु तथा, इति परमगहनमेतत् । तदित्थं सिद्धं सुनिश्चितासंभवद्वाधकप्रमाणत्वम् । तेन कः परमात्मा ? चिदेव लब्ध्युपयोगसंस्काराणामावरणनिबन्धनानामत्यये भवभृतां प्रभुः । न हि सर्वज्ञस्य निराकृतेः प्राक् सुनिश्चितासंभवत्साधकप्रमाणत्वं सिद्धं येन पर: प्रत्यवतिष्ठेत । नापि बाधकासंभवात् परं प्रत्यक्षादेरपि विश्वासनिबन्धनमस्ति। तत् प्रकृतेऽपि सिद्धम्, यदि तत्सत्तां न साधयेत् सर्वत्राप्यविशेषात् । तदभावे दर्शनं नादर्शनमतिशेते, अनाश्वासात्, विभ्रमवत् । साधकबाधकप्रमाणयोर्निर्णयात् भावाभावयोरविप्रतिपत्तिः, अनिर्णयादारेका स्यात् । न खलु ज्ञस्वभावस्य कश्चिदगोचरोऽस्ति यन्न क्रमेत, तत्स्वभावान्तप्रतिषेधात् । चेतनस्य सतः सम्बन्ध्यन्तरं मोहोदयकारणकं मदिरादिवत् । तदभावे साकल्येन विरतमोहः सर्वं पश्यति, प्रत्यासत्तिविप्रकर्षयोरकिञ्चित्करत्वात्, अत एवाक्षानपेक्षा अञ्जनादिसंस्कृतचक्षुषो यथा आलोकानपेक्षा ॥३॥
दोषावरणयोर्हानिनि:शेषाऽस्त्यतिशायनात् । क्वचिद् यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः॥४॥
In some person there must be a total destruction of the spiritual deficiencies and of the physical veilings (that act as the cause of these deficiencies), for there must be a case where such destruction is most complete of all; this is just as by an employment of appropriate means it is possible to bring about in a physical substance a total destruction of the extraneous as well as organic impurities which it had happened to accumulate. (4)
Note: By “physical veilings' are to be understood the karmas (more correctly, karmans) which are supposed to have been accumulated by a soul as a result of its good or bad past acts and which the Jaina tradition conceives in the form of physical entities.
वचनसामर्थ्यात् अज्ञानादिर्दोषः स्वपरपरिणामहेतुः। अत एव लोष्टादौ निःशेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्यसमीक्षिताभिधानम्, साध्यापरिज्ञानात् । दोषावरणयोर्हानेरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org