________________
प्रतिपत्तिः -३, दीव०
२६९ रामांसुगन्धवरगन्धगन्धिकांगन्धवर्तिभूतांकुर्वन्ति, एतेषांच पदानांव्याख्यानंपूर्ववत्, अप्येकका देवा हिरण्यवर्षं वर्षन्ति, अप्येककाःसुवर्णवर्षमप्येककाआभरणवर्षं (रलवर्षमप्येकका वज्रवर्षमप्येककाः) पुष्पवर्षमप्येककामाल्यवर्षमप्येककाचूर्णवर्षं वस्त्रवर्ष (आभरणवष) वर्षन्ति, अप्येकका देवा हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति विश्राणयन्तिशेषदेवेभ्योददतीतिभावः, एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्णवस्त्रविधिभाजनमपि भावनीयम्।।
'अप्पेगइया देवा दुयं नट्टविहिं उवदंसेंति' इत्यादि, इह द्वात्रिंशन्नाटयविधयः, ते च येन क्रमेण बगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भाविता राजप्रश्नीयोपाङ्गे दर्शितास्तेन क्रमेण विनेयजनानुग्रहार्थमुपदर्श्यन्ते।तत्र स्वस्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमङ्गलाकारभिनयात्मकः प्रथमो नाट्यविधि १, द्वितीय आवर्तप्रत्यावर्तेश्रेणिप्रतिश्रेणिस्वस्तिक पुष्पमाणवकवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पा-वलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलता भक्तिचित्राभिनयात्मकः २, तृतीय ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुस भचर-कुञ्जरवनलतापद्मलताभक्तिचित्रात्मकः ३, चतुर्थ एकतोच ऋद्विघातोच क्रएकतश्चक्रवालद्विघातश्चक्रवालचक्रर्द्धचक्रवालाभिनयात्मकः ४, पञ्चमश्चन्द्रावलिप्रविभक्तिसूर्यावलिप्रविभक्तिवलयावलिप्रविभक्तिहंसावलीप्रविभक्तितारावलिप्रविभक्तिमुक्तावलिप्रविभक्तिरला विप्रविभक्तिपुष्पावलिप्रविभक्तिनामा ५, षष्ठश्चन्द्रोद्गमप्रविभक्तिसूर्योद्गमप्रविभक्त्यभिनयात्मक उद्गमनोद्गमनप्रविभक्तिनामा ६, सप्तमश्चन्द्रागमनसूर्यागमनप्रविभक्त्यभिनयात्मक आगमनागमनप्रविभक्तिनामा ७, अष्टमश्चन्द्रावरणप्रविभक्तिसूर्यावरणप्रविभक्त्यभिनयात्मक आवरणावरणप्रविभक्तिनामा ८॥
नवमश्चन्द्रास्तमयनप्रविभक्तिसर्यास्तमयनप्रविभक्त्यभिनयात्मकोऽस्तमयनास्तमयनप्रविभक्तिनामा ९, दशमश्चन्द्रमण्डलप्रविभक्तिसूर्यमण्डलप्रविभक्तिनागमण्डलप्रविभक्तियक्षमण्डलप्रविभक्तिभूतमण्डलप्रविभक्त्यभिनयात्मको मण्डलप्रविभक्तिनामा १०, एकादश ऋषभमण्डलप्रविभक्तिसिंहमण्डलप्रविभक्तिहयविलम्बितगजविलम्बितहयविलसितगजविलसितमत्तहयविलसितमत्तगजविल समत्तहयविलम्बितमत्तगजविलम्बिताभिनयोद्रुतविलम्बितनामा ११, द्वादशः सागरप्रविभक्तिनगप्रविभक्त्यभिनयात्मकः सागरनागप्रविभक्तिनामा १२, त्रयोदशोनन्दाप्रविभक्तिचम्पाप्रविभक्त्यभिनयात्मकोनन्दाचम्पाप्रनिभक्त्यात्मकः१३, चतुर्दशो मत्स्याण्डकप्रविभक्तिमकराण्डकप्रविभक्तिजारप्रविभक्तिमारप्रविभक्त्यभिनयात्मको मत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनामा १४, पञ्चदशः क इतिककारप्रविभक्ति ख इति खकारप्रविभक्तिर्ग इति गकारप्रविभक्तिर्घ इति घकारप्रविभक्ति: इति उकारप्रविभक्तिरित्येवंक्रमभाविककारादिप्रविभक्त्यभिनयात्मकः ककारखकारगकारघकार-ङकारप्रविभक्तिनामा १५, एवं षोडशश्चकारछकारजकारझकारनकारप्रविभक्तिनामा १६।
सप्तदशःटकारठकारडकारढकारणकारप्रविभक्तिनामा १७, अष्टादशस्तकारथकारदकारधकारनकारप्रविभक्तिनामा १८, एकोनविंशतितमःपकारफकारबकारभकारमकारप्रविभक्तिनामा १९, विंशतितमोऽशोकपल्लवप्रविभक्त्याम्रपल्लवप्रविभक्तिजम्बूपल्लवप्रविभक्तिकोशाम्बपल्लवप्रविभक्त्यभिनयात्मकः पल्लव २ प्रविभक्तिनामा २०, एकविंशतितमः पद्मलता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org