Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 489
________________ ४८६ जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व० /१/३७२ शतसहस्राणि चतुःसप्तति सहस्राणि सप्तशतानि अष्टापञ्चाशदधिकानि येऽपि चावलिकाया अंशाश्चतुर्विंशतितानि अष्टपञ्चाशदधिकानि तेऽपि मुहूर्तगतोच्छासराशिना गुण्यन्ते, अस्यैव छेदस्य ते अंशा इत्यावलिकानायनार्थं तेनैव भागो हियते, लब्धास्तावत्य एवावलिकाश्चतुर्विंशतिशतान्यष्टापश्ञ्चाशानि तानि मूलराशौ प्रक्षिप्यन्ते, जाता मूलराशिरेका कोटि सप्तषष्टिर्लक्षाः सप्तसप्तति सहस्राणि द्वे शते षोडशोत्तरे, एतावत्य आवलिका मुहूर्ते भवन्ति, यदिवा मुहूर्त्तगतानां क्षुल्लकभवग्रहणानां पञ्चषष्टि सहस्राणि पञ्च शतानि षट्त्रिंशतानि एकभवग्रहणप्रमाणेन षट्पञ्चाशेन शतद्वयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तञ्च 119 11 "एगा कोडी सत्तट्ठि लक्ख सत्तत्तरी सहस्सा य । दो यसया सोलहिया आवलियाओ मुहुत्तंमि ।।” एवं च यदुच्यते 'संखेज्जाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि तदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिभवस्थकेवल्यनाहारकस्यान्तरमभिधित्सुराह - 'सजोगिभवत्थकेवलिअनाहारयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! जघन्येनाप्यन्तर्मुहूर्त्तमुत्कर्षेणाप्यन्तर्मुहूर्तं समुदघातप्रतिपत्तेरनन्तरमेवान्तमुहूर्तेन शैलेशीप्रतिपत्तिभावात्, नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारक्यान्तराभावो भावनीयः । साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुत्वमाह - 'एएसि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! सर्वस्तोका अनाहारकाः, सिद्धविग्रहगत्यापन्नसमुदघातगतसयोगिकेवल्ययोगिकेवलिनामेवानाहारकत्वात्, तेभ्य आहारका असङ्घयेयगुणाः, अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगणाः कथं न भवन्ति ?, उच्यते, इह प्रतिनिगोदमसङ्घयेयो भागः प्रतिसमयं सदा विग्रहगत्यापन्नो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः119 11 “विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ।। " इतिवचनात् ततोऽसङ्घयेयगुणा एवाहारका घटते नानन्तगुणा इति । प्रकारान्तरेण भूयो द्वैविध्यमाह मू. (३७३) अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा - सभासगा अभासगा य ।। सभासए णं भंते! सभासएत्तिकालओ केवचिरं होति ?, गोयमा ! जहन्नेणं एक्कं समयं उक्को० अंतोमुहुत्तं अभासए णं भंते ० !, गोयमा ! अभासए दुविहे पन्नत्ते- साइए वा अपज्जवसिए सातीए वा सपज्जवसिए, तत्थ णं जे से साइए सपज्जवसिए से जह० अंतो० उक्को० अनंतं कालं अनंता उस्सप्पिणीओसप्पिणीओ वणस्सतिकालो । भासगस्स णं भंते! केवतिकालं अंतरं होति ?, जह० अंतो० उक्को० अनंतं कालं वणस्सतिकालो । अभासग० सातीयस्स अपज्जवसियस्स नत्थि अंतरं, सातीयसपज्जवसियस्स जहन्नेणं एक्कं समयं उक्को० अंतो० । अप्पाबहु० सव्वत्थोवा भासगा अभासगा अनंतगुणा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532