Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 506
________________ - प्रतिपत्तिः - सर्व०, प्रतिपत्तिः६ ५०३ सागरोवमाइं अंतोमुत्तम०, एवं नीललेसस्सवि, काउलेसस्सवि, तेउलेसस्स णं भंते ! अंतरं का०?, जह० अंतो० उक्को० वणस्सतिकालो, एवं पम्हलेस्सविसुक्कलेसस्सविदोण्हविएवमंतरं, अलेसस्स णं भंते ! अंतरं कालओ०?, गोयमा ! सादीयस्स अपज्जवसियस्स नत्थि अंतरं । एतेसि णं भंते ! जीवाणं कण्हलेसाणं नीललेसाणं काउले० तेउ० पम्ह० सुक्क० अलेसाण य कयरे २ ?०, गोयमा ! सव्वत्थोवा सुक्कलेस्सा पम्हलेस्सा संखेजगुणा तेउलेस्सा संखिज्जगुणा अलेस्सा अनंतगुणा काउलेस्सा अनंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेसाहिया । सेत्तं सत्तविहा सव्वजीवा पन्नत्ता ॥ वृ.'अहवेत्यादि, 'अथवा प्रकारान्तरेणसर्वजीवाः सप्तविधाः प्रज्ञप्तास्तद्यथा-कृष्णलेश्याः नीललेश्याः कापोतलेश्याः तेजोलेश्याः पद्मलेश्याः सुक्ललेश्याः अलेश्याः। साम्प्रतमेतेषां कायस्थितिमाह-'कण्हलेसे णं भंते !' इत्यादि, कृष्णलेश्या जघन्यतोऽन्तर्मुहूर्त, तिर्यङ्गमनुष्याणां कृष्णलेश्याया अन्तर्मुहूर्तावस्थायित्वात्, उत्कर्षतस्विंयस्त्रशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि, देवनारका हि पाश्चात्यभवगतचरमान्त- मुहूर्तादारभ्यागेतनभवगतप्रथमान्तर्मुहूर्त यावदवस्थितलेश्याकाः, अधःसप्तमपृथिवीनारकाच कृष्णलेश्याकाः पाश्चात्याग्रेतनभवगतचरमादिमान्तर्मुहूर्ते द्वे अप्येकमन्तर्मुहूर्त, तस्यासङ्ख्यातभेदात्मकत्वात्, तत उपपद्यन्ते कृष्णलेश्याकस्यान्तर्मुहूर्ताभ्यधिकानि त्रयस्त्रिंशत्सागरोप० । नीललेश्याको जघन्यतोऽन्तर्मुहूर्तं तच्च प्राग्वत्, उत्कर्षतो दश सागरोपमाणि पल्योपमासङ्खयेयभागाधिकानि, धूमप्रभाप्रथमप्रस्तटनारकाणांनीललेश्याकानामेतावस्थितिकत्वात्, पाश्चात्यागेतनभवगते च चरमादिमान्तर्मुहूर्ते पल्योपमासङ्ख्येयभागान्तःप्रविष्टे न पृथग्विवक्षिते, कापोतलेश्याकोजघन्येनान्तर्मुहूर्तप्राग्वत, उत्कर्षतस्त्रीणि सागरोपमाणिपल्योपमासङ्घयेयभागाभ्यधिकानि, वालुकाप्रथमप्रस्तटगतनारकाणां कापोतलेश्याकानामेतावस्थितिकत्वात्, तेजोलेश्याकोजघन्येनान्तर्मुहूर्तं तथैव उत्कर्षतो वे सागरोपमेपल्योपमासङ्खयेयभागाभ्यधिके, ते चेशानदेवानामवसातव्ये, पद्मलेश्याको जघन्येनान्तर्मुहूर्तं प्राग्वत्, उत्कर्षतो दश सागरोपमाणि अन्तर्मुहूर्ताभ्यदिकानि, तानि ब्रह्मलोकवासिनां देवानामवसातव्यानि, शुक्ललेश्याको जघन्यतोऽन्तर्मुहूर्तप्राग्वत्, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणिअन्तर्मुहूर्ताभ्यधिकानि, तानि चानुत्तरसुराणां प्रतिपत्तव्यानि, तेषां शुक्ललेश्याकत्वात् ॥ अन्तरचिन्तायांकृष्णलेश्याकस्यान्तरंजघन्यतोऽन्तर्मुहूर्त, तिर्यङ्मनुष्याणामन्तर्मुहूर्तेन लेश्यापरावर्तनात्, उत्कर्षतस्विंयस्त्रशत्सागरोपमाण्यन्तर्मुहूर्ताभ्यधिकानि, शुक्ललेश्योत्कृष्टकालस्य कृष्णलेश्यान्तरोत्कृष्टकालत्वात्, एवं नीललेश्याकापोतलेश्ययोरपि जघन्यत उत्कर्षतश्चान्तं वक्तव्यं, तेजःपद्मशुक्लानामन्तरंजघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वनस्पतिकालः, लान्तकादिदेवानां पर्याप्तगर्भव्युत्क्रान्तिककतिपयपञ्चेन्द्रियतिर्यमनुष्याणांचपद्मलेश्याकत्वात्, अथ लान्तकादिदेवेभ्यः सनत्कुमारादिकल्पन्नयवासिनो देवा असङ्ख्यातगुणाःततःशुक्ललेश्येभ्यः पद्मलेश्या असङ्ख्यातगुणा-प्राप्नुवन्ति, कथं सङ्खयेयेगुणा उक्ताः ? उच्यते, इह जघन्यपदेऽप्यसङ्ख्यातानांसनत्कुमारादिकल्पत्रयवासिभ्योऽसङ्खयेयगुणानां पञ्चेन्द्रियतिरश्चाशुक्ललेश्या, ततः पद्मलेश्याकाःशुक्ललेश्याकेभ्यः सङ्खयेयगुणाः, तेजोलेश्याकाः देभ्योऽपि सङ्खयेयगुणाः, तेभ्योऽपि सङ्घयेयगुणेषु तिर्यक्पञ्चेन्द्रियमनुष्येषु भवनपतिव्य For Private & Personal Use Only ___www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532