Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८४
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/१/३७२ भवन्ति तावत्य उत्सपिण्यवंसापिण्य इति, तावन्तं हि कालमविग्रहेणोत्पाद्यते, अविग्रहोत्पत्ती च सततमाहारकः।
केवल्याहारकप्रश्नसूत्रं पाठसिद्धं, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त, सचान्तकृत् केवलीप्रतिपत्तव्यः, उत्कर्षतोदेशोनापूर्वकोटी, साचपूर्वकोटयायुषोनववर्षादारभ्योत्पन्नकेवलज्ञानस्य परिभावनीया। अनाहारकविषयं सूत्रमाह-'अनाहारएणंभंते' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम अनाहारको द्विविधः प्रज्ञप्तः-छद्मस्थोऽनाहारकः केवल्यनाहारकश्च, छद्मस्थानाहारकप्रश्नसूत्रं सुगमं भगवानाह-गौतम ! जघन्यत एकं समयं, जघन्याधिकाराद्विसामयिकी विग्रहगतिम- पेक्ष्यैतदवसातव्यं, उत्कर्षतो द्वौ समयौ त्रिसामयिक्या एव विग्रहगतेर्बाहुल्येनाश्रयणात्, आह च चूर्णिकृत्-“यद्यपि भगवत्यां चतुःसामयिकोऽनाहारक उक्तस्तथाऽप्यत्र नाङ्गीक्रयते, कदाचित्कोऽसौ भावो येन, बाहुल्यमेवाङ्गीक्रयते, बाहुल्याच समयद्वयमेवे"ति।केवल्यनाहारकसूत्रपाठसिद्धं, भगवानाह-गौतम! केवल्यनाहारको द्विविधः प्रज्ञप्तस्तद्यथाभवस्थकेवल्यनाहारकः सिद्धकेवल्यनाहारकः।
'सिद्धकेवलिअनाहारएणंभंते!' इत्यादिप्रश्नसूत्रसुगम, भगवानाह-गौतम!सादिकापर्यवसितः, सिद्धस्य साद्यपर्यवसिततयाऽनाहारकत्वस्यापि तद्विशिष्टस्य तथाभावात् ।। 'भवत्थकेवलिअनाहारएणंभंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! भवस्थकेवल्यनाहारको द्विविधः, प्रज्ञप्तः-सयोगिभवस्थकेवल्यनाहारकोऽयोगिभवस्थकेवल्यनाहारकश्च, तत्रायोगिभवस्थकेवल्यनाहारकप्रश्नसूत्रसुगम, भगवानाह-गौतम! जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षतोऽप्यन्तर्मुहूर्त, अयोगित्वं नाम हि शैलेश्यवस्था तस्यां नियमादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्थाचजघन्यतउत्कर्षतश्चान्तर्मुहूर्त, नवरं जघन्यपदादुत्कृष्टमधिकमवसेयं, अन्यथोभयपदोपन्यासायोगात् । 'सजोगिभवत्थकेवलिअणाहारएणं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भ०-गौ० अजघन्योत्कर्षेण त्रयः समयाः, ते चाष्टसामयिककेवलिसमुद्घातावस्थायां तृतीयचतुर्थपञ्चमरूपाः तेषु केवलकार्मणकाययोगभावात्, उक्तञ्च॥१॥ “कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च ।
समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥" साम्प्रतमन्तरंचिन्तयन्नाह-'छउमत्थाहारयस्सणंभंते!' इत्यादि, छद्मस्थाहारकस्य भदन्त अन्तरंकालतः कियच्चिरं भवति?, भगवानाह-गौतम! जगन्येनैकं समयमुत्कर्षतो द्वौ समयौ, यावानेव हि कालो जघन्यत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहरकस्यान्तरकालः, सच कालोजघन्येनैकः समयः उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवहियमाणायांत्रिसामयिक्यांविग्रहगती द्वौसमयावित्याहारकस्याप्यन्तरंतावदिति।केवल्याहारक्तप्रश्नसूत्रसुगम, भगवानाह-गौतम अजघन्योत्कर्षेणत्रयः समयाः केवल्याहारको हिसयोगिभवस्थकेवली, तस्य चानाहारकत्वंत्रीनेव समयान् यथोक्तं प्रागित्यन्तरं केवल्याहारकस्य तावदिति ।
सम्प्रत्यनाहारकस्यान्तरं चिचिन्तयिषुःप्रथमतश्छद्मस्थानाहारकस्याह-'छउमत्थानाहारयस्सणंभंते!' इत्यादि प्रश्नसूत्रंसुगम, भगवानाह-गौतम! जघन्येन क्षुल्लकभवग्रहणंद्विसमयोनं,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532