Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव० / १८५
विशेषवन्तस्तेषां प्रेक्षा तूणइल्लप्रेक्षा, तुम्बवीणाप्रेक्षेति वा, तुम्बयुक्ता वीणा येषां ते तुम्बवीणाःतुम्बवीणावादकास्तेषां प्रेक्षा, 'कावपिच्छाइ वे' ति कावाः - कावडिवाहका तेषां प्रेक्षा, मागधप्रेक्षेति वा, मागधा - बन्दिभूतास्तेषां प्रेक्षा मागधप्रेक्षेति वा ?, भगवानाह - नायमर्थ समर्थो, व्यपगत कौतुकास्ते मनुजगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
‘अत्थिणं भंते’ इत्यादि, अस्ति भदन्त ! उत्तरकुरुषु कुरुषु इन्द्रमह इति वा, इन्द्रः - शक्रस्तस्य महः- प्रतिनियतदिवसभावी उत्सवः, स्कन्दमह इति वा, स्कन्दः - कार्त्तिकेयः, रुद्रमह इति वा, रुद्रः प्रतीतः, शिवमह इति वा, सिवो-देवताविशेषः, वैश्रमणमह इति वा, वैश्रमणःउत्तरदिग्लोकपालः, नागमह इति वा, नागो-भवनपतिविशेषः, यक्षमह इति वा भूतमह इति वा, यक्षभूतौ - व्यन्तरविशेषौ, मकुनदमह इति वा, मकुन्दो - बलदेवः, कूपमह इति वा तडाकमह इति वा नदीमह इति वा हदमह इति वा पर्वतमह इति वा वृक्षमह इति वा चैत्यमह इति वा स्तूपमह इति वा?, कूपादयः प्रतीताः, भगवानाह - नायमर्थ समर्थो, व्यपगतमहमहिमास्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
'अत्थि णं भंते!' इत्यादि, सन्ति भदन्त ! उत्तरुकुरुषु कुरुषु शकटानीति वा, शकटानिप्रतीतानि, रथा वा, रथा द्विविधा - यानरथाः सङ्गामरथाश्च, तत्र सङ्गामरथस्य प्राकारानुकारिणी फलकमयी वेदिकाऽपरस्य तु न भवतीति विशेषः, यानानीति वा यानं - गन्त्रयादि, युग्यानीति वा, युग्यं - गोल्लविषयप्रसिद्धं द्विहस्तप्रमाणं चतुरवेदिकोपशोभितं जम्पानं, गिल्लय इति वा, गिल्लिर्हस्तिन उपरि कोल्लररूपा या मानुषं गिलतीव, थिल्लय इति वा, लाटानां यद् अड्डुपल्लाणं रूढं तदन्यविषये थिल्लिरित्युच्यते, शिबिका इति वा, शिबिका - कूटाकाराच्छादितो जम्पानविशेषः, सन्दमाणिया इति वा, सन्दमाणिया - पुरुषप्रमाणो जम्पानविशेष: ?, भगवानाह - नायमर्थः, समर्थः पादविहारचारिणस्ते मनुजाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! अश्वा इति वा हस्तिन इति वा उष्ट्रा इति वा गाव इति वा महिषा इति वा खरा इति वा घोटका इति वा ?, इह जात्या आशुगमनशीला अश्वाः शेषा घोटकाः, खरा-गर्दभाः, अजा इति वा एडका इति वा ?, भगवानाह - हन्त ! सन्ति, पुनस्तेषां मनुजानां परिभोग्यतया 'हव्वं' शीघ्रमागच्छन्ति ॥ 'अत्थि णं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः गव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति भदन्त ! उत्तरकुरुषु कुरुषु गाव इति वा, गावः - गिव्यः, महिष्य इति वा उष्ट्रय इति वा अजा इति वा एडका इति वा ?, हन्त ! सन्ति, न पुनस्तेषां मनुष्याणामुपभोग्यतया हव्यं शीघ्रमागच्छन्ति । 'अत्थिणं भंते' इत्यादि, सन्ति भदन्त ! उत्तरकुरुषु कुरुषु सिंहा इति वा, सिंहः - पञ्चाननः, व्याघ्रा इति वा, व्याघ्रः - शार्दूलः, वृका इति वा, द्वीपिका इति वा द्वीपिका - चित्रकाः, ऋक्षा इति वा, परस्सरा इति वा, परस्सरो - गण्डः, श्रृंगाला इति वा, बिडाला इति वा, शुनका इति वा, कालशुनका इति वा, कोकन्तिका इति वा, कोकन्तिकालुङ्कडिकाः, शशका इति वा, चिल्लला इति वा, चिल्लल - आरण्यकः पशुविशेषः ?, भगवानाह - हन्त ! सन्ति, न पुनस्ते परस्परस्या तेषां वा मनुजानां काञ्चिदाबाधां वा छविच्छेदं वा कुर्वन्ति, प्रकृतिभद्रकास्ते श्वापदगणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! |
Jain Education International
For Private & Personal Use Only
३०८
www.jainelibrary.org
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532