Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रतिपत्तिः-३, वै० -उद्देशकः १
४२९ षड्देवसहस्राणि मध्यमिकायामष्टौ देवसहस्राणि बाह्यायां दशअभ्यन्तरिकायां पर्षदि देवानामर्द्धपञ्चमानि सागरोपमाणि पञ्च पल्योपमानि, शेषं सर्वं यथा सनत्कुमारस्य ।
'कहिणंभंते! बंभलोगदेवाणंविमाणापन्नता? कहिणंभंते! बंभलोगदेवापरिवसंति ? गोयमा! सणंकुमारमाहिंदाणंकप्पाउप्पिं सपक्खंसपडिदिसिंबहूइंजोयणाइंजाव उप्पइत्ता एत्थणंबंभलोगे नामं कप्पे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिन्ने पडिपुन्नचंदसंठाणसंठिए अच्चिमाली इंगालरासिवण्णाभे' इति पूर्वद्भावनीयं शेषं यथा सनत्कुमारस्य तथा वक्तव्यं, नवरमत्रचत्वारि विमानासशतसहस्राणि, अवतंसका अपि चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसकः चम्पकावतंसकःचूतावतंसकःमध्येब्रह्मलोकावतंसकः, आधिपत्यचिन्तायामपि 'चउण्हं विमाणावाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं चउण्ह य सट्ठीणमायरक्खदेवसाहस्सीण'मिति, तथाऽभ्यन्तरिकायांपर्षदिचत्वारिदेवसहस्राणिमध्यमिकायांषड्देवसहस्राणि बाह्यायामष्टौ देवसहस्राणि, तताऽभ्यन्तरिकायां पर्षदि देवानामर्द्धनवमानि सागरोपमाणि पञ्च पल्योपमानि स्थिति मध्यमिकायां पर्षदि अर्द्धनवमानि सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्द्धनवमानि सागरोपमाणि त्रीणिच पल्योपमानि, शेषं यथा सनत्कुमारस्य।
___ 'कहिणंभंते! लंतगलोगदेवाणं विमाण पन्नता? कहिणंभंते! लंतगदेवा परिवसंति? गो० ! बंभलोयस्स कप्पस्स उप्पिं सपक्खं सपडिदिसिं बहूई जोयणाई जाव उप्पइत्ता एत्थ णं लंतए नामं कप्पे पन्नत्ते पाईणपडिणायते उदीणदाहिणविच्छिण्णे पडिपुन्नचंदसंठाणसंठिए अच्चिमाली' इत्यादिब्रह्मलोकवतनवरमत्रपञ्चाशद्विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वार ईशानवत्, तद्यथा-अङ्कावतंसकः स्फटिकावतंसकः रजतावतंसकः जातरूपावतंसकः मध्ये लन्तकावतंसकः, आधिपत्यचिन्तायां पन्नासाए विमाणावाससयसहस्साणं पन्नासाए सामानियसाहस्सीणं चउण्ह य पन्नासाणमायरक्खदेवसाहस्सीणं' तथाऽभ्यन्तरिकायां पर्षदि द्वे देवसहने मध्यमिकायां चत्वारि बाह्यायां षट्, तथाऽभ्यन्तरिकायां पर्षदि देवानां द्वादश सागरोपमाणिसप्त चपल्योपमानि स्थिति मध्यमिकायांद्वादशसागरोपमाणि षट्च पल्योपमानि बाह्यायां द्वादश सागरोपमाणि पञ्च पल्योपमानि ।
____ 'कहिणं भंते! महासुक्कगदेवाणं विमाणा पन्नत्ता? कहिणं भंते ! महासुक्कगदेवा परिवसन्ति ?, गोयमा ! लंतगकप्पस्स उवरिं सपखं सपडिदिसिं बहूई जोयणाई जाव उप्पइत्ता एत्थणंमहासुक्कनामेकप्पे पन्नत्ते पाईणपडिणायतेउदीणदाहिणविच्छिण्णेपडिपुन्नचंदसंठाणसंठिते' इत्यादि सर्वं ब्रह्मलोकवत्, नवरमत्र चत्वारिंशद् विमानावाससहस्राणि वक्तव्यानि, अवतंसकाश्चत्वारस्तथैव, तद्यथा-अशोकावतंसकः सप्तपर्णावतंसःचम्पकावतंसकः चूतावसंतसकःमध्ये शुक्रावतंसकः, आधिपत्यचिन्तायां चत्तालीसाए विमाणावाससहस्साणंचत्तालीसाए सामानियसाहस्सीणंचउण्हं चत्ताली चउम्हं चत्तालीसाणमायरक्खदेवसाहस्सीणमिति, यथाऽभ्यन्तरिकां पर्षदिएकं देवसहनंमध्यमिकायां द्वेदेवसहन बाह्यायांचत्वारिदेवसहस्राणि, तथाऽभ्यन्तरिकायां पर्षदि अर्द्धषोडश सागरोपमाणे पञ्च पल्योपमानि स्थिति मध्यमिकायां षोडश सागरोपमाणि चत्वारि पल्योपमानि बाह्यायामर्द्धषोडश सागरोपमाणि त्रीणि पल्योपमानि शेषं पूर्ववत् ।
'कहिणंभंते! सहस्सारदेवाणं विमाणापन्नत्ता? कहिणं भंते! सहस्सारदेवा परिवसंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532