Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
प्रतिपत्तिः-५,
४६७ प्रदेशार्थतया द्रव्यामां स्तोकत्वात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्खयेयगुणा द्रव्याणामसङ्ख्येयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सङ्खयेयगुणा-द्रव्याणां सङ्खयेयगुणत्वात्।। _ 'दब्वट्ठपएसट्टयाए त्तिअघुनद्रव्यार्थप्रदेशार्थतया चिन्ता क्रियते सर्वस्तोकाबादरनिगोदाः पर्याप्ता द्रव्यार्थतया, बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्घयेयगुणाः, युक्ति प्राक्तन्येव, तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणाः, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्पन्नत्वात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया सङ्खयेयगुणाः, द्रव्याणामसङ्खयेयगुणत्वात्, तेभ्योः सूक्ष्मनिगोदाअपर्याप्ताः प्रदेशार्थतयाअसङ्ख्येयगुणाः, युक्ति प्राक्तन्वेव, तेभ्यः सक्ष्मनिगोदाः पर्याप्ताः सङ्घयेयगुणाः, द्रव्याणां सङ्खयेयगुणत्वात् ।
साम्प्रतमेतेषामेव सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-“एएसि णमित्यादि, सर्वस्तोकाबादरजीवाः पर्याप्ताद्रव्यार्थतया, निगोदानां स्तोकत्वात्, तेभ्योबादरनिगोदजीवाअपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणा, निगोदानामसङ्ख्येयगुणत्वात्, तेभ्यः सूक्ष्मनिगोदजीवाः अपर्याप्तका द्रव्यार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः, कारणंपूर्ववद्ऊर्जा, प्रदेशार्थतयासर्वस्तोका बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात्, तेभ्यो बादरनिगोदजीवाअपर्याप्ताः प्रदेशार्थतयाऽसङ्खयेयगुणाः, द्रव्याणामसङ्खयेयगुणत्वात्, एवं तेभ्यः सूक्ष्मनिगोदजीवाअपर्याप्ताःप्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सद्ध्येयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदजीवाअपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताद्रव्यार्थतया सङ्ख्येयगुणाः,तेभ्योबादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसङ्खयेयगुणाः,प्रतिबादरनिगोदपर्याप्तजीवामसङ्खयेयानांलोकाकाशप्रदेशप्रमाणानांप्रदेशानां भावात, तेभ्यःबादरनिगोदजीवाअपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः बादरनिगोदापर्याप्तेभ्यो बादरनिगोदपर्याप्तानामसङ्ख्यातगुणत्वात्,तेभ्यः सूक्ष्मनिगोदजीवाअपर्याप्तकाः प्रदेशार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसङ्खयेयगुणाः, भावना प्रागिव ।
सम्प्रति सूक्ष्मबादरपर्याप्तापर्याप्तनिगोदनिगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्यतया परस्परमल्पबहुत्वमाह-एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः तेभ्यः सूक्ष्मनिगोदा अर्याप्ता द्रव्यार्थतयाऽसङ्खयेयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्खयेयगुणाः,अत्र सर्वत्रापियुक्तिप्रागुक्तैव, सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्योद्रव्यार्थतयाबादरनिगोदजीवाः पर्याप्ताअनन्तगुणाः, एकैकस्मिनिगोदेऽनन्तानांजीवानां भावात्, तेभ्योबादरनिगोदजीवाः अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः निगोदानामसङ्ख्यातत्वात्, एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सद्ध्येयगुणाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532