Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 475
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ७/-/ ३६६ त्यान्यत्रान्तर्मुहूर्तं स्थित्वा भूयो नैरयिकत्वेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रतिपत्तव्यः, नरकादुद्धृत्य पारम्पर्येण वनस्पतिषु गत्वाऽनन्तमपि कालमवस्थानात्, अप्रथमसमयनैरयिकसूत्रे जघन्यमन्तरं समयाधिकमन्तर्मुहूर्तं तच्च नरकादुद्ध त्य तिर्यगगर्भे मनुष्यगर्भे वाऽन्तर्मुहूर्त स्थित्वा भूयो नरकेषूत्पद्यमानस्य भावनीयं, समयाधिक च प्रथमसमयस्याधिकत्वात्, क्वचिदन्तर्मुहूर्त्तमित्येव दृश्यते, तत्र प्रथमसमयोऽन्तर्मुहूर्त एवान्तर्भावित इति पृथग्नोक्तः, उत्कर्षतो वनस्पतिकालः । प्रथमसमयतिर्यग्योनकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानतः पुनस्तिर्यक्ष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि - एकं प्रथमसमयोनं तिर्यकक्षुल्लकभवग्रहणं द्वितीयं संपूर्णमेव मनुष्यक्षुल्लकभवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्यक्त्वोपपत्तेः, अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तत्तु तिर्यग्योनिकक्षुल्लकभवग्रहमचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुल्लकभवग्रहणेन व्यवधाने सति तिर्यक्त्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुल्लकभवग्रहणेन व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकसूत्रद्वयवत् । ४७२ सम्प्रत्येषामेव चतुर्णा प्रथमसमयानां परस्परमल्पबहुत्वमाह - 'एएसिणमित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसङ्घत्येयभागमात्रत्वात्, तेभ्यः प्रथमसमयनैरयिका असङ्घत्येयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयदेवा असङ्घयेयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयतिर्यञ्चोऽसङ्घयेयगुणाः, इह ये नारकादिगतित्रयादागत्य तिर्यक्त्वप्रथमसमये ये वर्त्तन्ते ते प्रथमसमयतिर्यञ्चो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसङ्घयेयो भागः सदा विग्रहगतिप्रथमसमयवर्त्ती लभ्यते तथाऽपि निगोदानामपि तिर्यक्त्वान्न ते प्रथमसमयतिर्यञ्चः ते एभ्यः सङ्ख्येयगुणा एव । साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयानां परस्परमल्पबहुत्वमाह - 'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसङ्घयेयभागत्वात्, तेभ्योऽप्रथमसमयनैरयिका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीय वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावव्यमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावठप्रमाणत्वात्, तेभ्योऽ प्रथमसमयदेवा असङ्घयेयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतत्वात्, तेभ्योऽप्रथम- समयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् । साम्प्रतमेतेषामेव नैरयिकादीनां प्रत्येकं प्रथमसमयाप्रथमसमयगतमल्पबहुत्वमाह - 'एएसि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोकाः प्रथमसमयनैरयिकाः, एकस्मिन् समये सङ्ख्यातीताना मपि स्तोकानामेवोत्पादात्, तेभ्योऽप्रथमसमयनैरयिक असङ्घयेयगुणाः, चिरकालावस्थायिनां तेषामन्या । न्योत्पादेनातिप्रभूतभावात्। एवं तिर्यग्योनिकमनुष्यदेवसूत्राण्यपि वक्तव्यानि, नवरं तिर्यगयोनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्याः, Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532