________________
जीवाजीवाभिगमउपाङ्गसूत्रम् ७/-/ ३६६
त्यान्यत्रान्तर्मुहूर्तं स्थित्वा भूयो नैरयिकत्वेनोत्पद्यमानस्य वेदितव्यानि, उत्कर्षतोऽनन्तं कालं, स चानन्तः कालो वनस्पतिकालः प्रतिपत्तव्यः, नरकादुद्धृत्य पारम्पर्येण वनस्पतिषु गत्वाऽनन्तमपि कालमवस्थानात्, अप्रथमसमयनैरयिकसूत्रे जघन्यमन्तरं समयाधिकमन्तर्मुहूर्तं तच्च नरकादुद्ध त्य तिर्यगगर्भे मनुष्यगर्भे वाऽन्तर्मुहूर्त स्थित्वा भूयो नरकेषूत्पद्यमानस्य भावनीयं, समयाधिक च प्रथमसमयस्याधिकत्वात्, क्वचिदन्तर्मुहूर्त्तमित्येव दृश्यते, तत्र प्रथमसमयोऽन्तर्मुहूर्त एवान्तर्भावित इति पृथग्नोक्तः, उत्कर्षतो वनस्पतिकालः ।
प्रथमसमयतिर्यग्योनकसूत्रे जघन्येनान्तरं द्वे क्षुल्लकभवग्रहणे समयोने, ते च क्षुल्लकमनुष्यभवग्रहणव्यवधानतः पुनस्तिर्यक्ष्वेवोत्पद्यमानस्यावसातव्ये, तथाहि - एकं प्रथमसमयोनं तिर्यकक्षुल्लकभवग्रहणं द्वितीयं संपूर्णमेव मनुष्यक्षुल्लकभवग्रहणमिति, उत्कर्षतो वनस्पतिकालः, तदतिक्रमे मनुष्यभवव्यवधानेन भूयः प्रथमसमयतिर्यक्त्वोपपत्तेः, अप्रथमसमयतिर्यग्योनिकसूत्रे जघन्येनान्तरं क्षुल्लकभवग्रहणं समयाधिकं तत्तु तिर्यग्योनिकक्षुल्लकभवग्रहमचरमसमयस्याधिकृताप्रथमसमयत्वात्तत्र मृतस्य मनुष्यक्षुल्लकभवग्रहणेन व्यवधाने सति तिर्यक्त्वेनोत्पद्यमानस्य प्रथमसमयातिक्रमे वेदितव्यं, अप्रथमसमयान्तरस्यैतावन्मात्रत्वात्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, देवादिभवानामेतावन्मात्रकालत्वात् । मनुष्यवक्तव्यता तिर्यग्वक्तव्यतेव, नवरं तत्र तिर्यकक्षुल्लकभवग्रहणेन व्यवधानं भावनीयम् । देवसूत्रद्वयं नैरयिकसूत्रद्वयवत् ।
४७२
सम्प्रत्येषामेव चतुर्णा प्रथमसमयानां परस्परमल्पबहुत्वमाह - 'एएसिणमित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसङ्घत्येयभागमात्रत्वात्, तेभ्यः प्रथमसमयनैरयिका असङ्घत्येयगुणाः, अतिप्रभूतानामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयदेवा असङ्घयेयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयतिर्यञ्चोऽसङ्घयेयगुणाः, इह ये नारकादिगतित्रयादागत्य तिर्यक्त्वप्रथमसमये ये वर्त्तन्ते ते प्रथमसमयतिर्यञ्चो, न शेषाः, ततो यद्यपि प्रतिनिगोदमसङ्घयेयो भागः सदा विग्रहगतिप्रथमसमयवर्त्ती लभ्यते तथाऽपि निगोदानामपि तिर्यक्त्वान्न ते प्रथमसमयतिर्यञ्चः ते एभ्यः सङ्ख्येयगुणा एव । साम्प्रतमेतेषामेव चतुर्णामप्रथमसमयानां परस्परमल्पबहुत्वमाह - 'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोका अप्रथमसमयमनुष्याः, श्रेण्यसङ्घयेयभागत्वात्, तेभ्योऽप्रथमसमयनैरयिका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः प्रथमवर्गमूले द्वितीय वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावव्यमाणासु श्रेणिषु यावन्त आकाशप्रदेशास्तावठप्रमाणत्वात्, तेभ्योऽ प्रथमसमयदेवा असङ्घयेयगुणाः, व्यन्तरज्योतिष्काणामपि प्रभूतत्वात्, तेभ्योऽप्रथम- समयतिर्यग्योनिका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् ।
साम्प्रतमेतेषामेव नैरयिकादीनां प्रत्येकं प्रथमसमयाप्रथमसमयगतमल्पबहुत्वमाह - 'एएसि णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोकाः प्रथमसमयनैरयिकाः, एकस्मिन् समये सङ्ख्यातीताना मपि स्तोकानामेवोत्पादात्, तेभ्योऽप्रथमसमयनैरयिक असङ्घयेयगुणाः, चिरकालावस्थायिनां तेषामन्या । न्योत्पादेनातिप्रभूतभावात्। एवं तिर्यग्योनिकमनुष्यदेवसूत्राण्यपि वक्तव्यानि, नवरं तिर्यगयोनिकसूत्रेऽप्रथमसमयतिर्यग्योनिका अनन्तगुणा वक्तव्याः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org