SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ७, वनस्पतिजीवानामनन्तत्वात् । साम्प्रतमेषामेव नैरयिकादीनां प्रथमाप्रथमसमयानां समुदायेन परस्परमल्पबहुत्वमाह'एएसि ण' मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः, एकस्मिन् समये सङ्ख्यातीतानामपि स्तोकानामेवोत्पादात्, तेभ्योऽप्रथमसमयमनुष्या असङ्घयेयगुणाः, चिरकालावस्थायितयाऽतिप्राभूत्येन लभ्यमानत्वात्, तेभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणाः, अतिप्रभूततराणामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयदेवा असङ्घयेयगुणाः, व्यन्तरज्योतिष्काणामेकस्मिन्नपि समये प्राचुर्येण कदाचिदुत्पादात् तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्ख्येयगुणाः, नारकवर्जगतित्रयादप्युत्पादसम्भवात्, तेभ्योऽ प्रथमसमयनैरयिका असङ्घयेय गुणाः, अङ्गुलमात्रक्षेत्र प्रदेशराशेः प्रथमवर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्ता वट्प्रमाणत्वात्, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् । उपसंहारमाह-प्रतिपतिः- -७- समाप्ताः 'सेत्त' मित्यादि ॥ ४७३ प्रतिपत्तिः-८ " नवविधा " घृ. तदेवमुक्ताऽष्टविधप्रतिपत्तिरधुना क्रमप्राप्ता नवविधप्रतिपत्तिमाह मू. (३६७) तत्थ णंजे ते एवमाहंसु नवविधा संसारसमावण्णगा ते एवमाहंसु - पुढविक्काइया आउक्काइया तेउक्काइया वाउक्काइया वणस्सइकाइया बेइंदिया तेइंदिया चउरिंदिया पंचेदिया ।। ठिती सव्वेसिं भा०पुढविक्काइयाणं संचिट्ठणा पुढविकालो जाव वाउक्काइयाणं, वणस्सईणं वणस्सतिकालो, बेइंदिया तेइंदिया चउरिदिया संखेज्रं कालं, पंचेदियाणं सागरोवमसहस्सं सातिरेगं ॥ अंतरं सव्वेसिं अनतं कालं, वणस्सतिकाइयाणं असंखेजं कालं । अप्पाबहुगं, सव्वत्थोवा पंचिंदिया चउरिदिया विसेसाहिया तेइंदिया विसेसाहिया बेइंदिया विसेसाहिया उक्काइया असंखे० पुढविका० आउ० वा० विसेसाहिया वणस्सतिकाइया अनतगुणा । सेत्तं णवविधा संसारसमावण्णगा जीवा पन्नत्ता ॥ वृ. 'तत्थे' त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा- पृथिवीकायिका अप्कायिकास्तेजस्कायिका वायुकायिका वनस्पिकायिका द्वीन्द्रियास्त्रन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, अमीषां शब्दार्थभावना प्राग्वत् ॥ साम्प्रतमेतेषां स्थितिनिरूपणार्थं सूत्रनवकमाह-'पुढविक्वाइयस्स णं भंते!' इत्यादि, एष सङक्षेपार्थ- सर्वत्रापि जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायिकस्य द्वाविंशतिवर्षसहस्राणि, अप्कायिकस्य सप्तवर्षसहस्राणि, तेजस्कायिकस्य त्रीणि रात्रिन्दिवानि, वायुकायिकस्य त्रीणि वर्षसहस्राणि, वनस्पतिकायिकस्य दशवर्षसहस्राणि द्वीन्द्रियस्य द्वादश संवत्सराणि त्रीन्द्रियस्यैकोनपञ्चाशद् रात्रिंदिवानि, चतुरिन्द्रियस्य षण्मासाः, पञ्चेन्द्रियस्य त्रयस्त्रिंशत्सागरोपमाणि । सम्प्रति कायस्थितिप्रतिपादनार्थं सूत्रनवकमाह-'पुढविक्काइए णं भंते!' इत्यादि, सर्वत्र जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः पृथिवीकायस्यासङ्घयेयं कालमसङ्घयेया उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसङ्घयेया लोकाः, एवमप्तेजोवायुकायिकानामपि द्रष्टव्यं, नवस्पतिकायिकस्यानन्तं कालम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy