SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४७४ जीवाजीवाभिगमउपाङ्गसूत्रम् ८/-/३६७ नन्ताउत्सर्पिण्यवसर्पिण्यःकालतः क्षेत्रतोऽनन्तालोकाःअसङ्ख्येयाः पुद्गलपरावर्ताःआवलिकाया असङ्खयेयोभागः, द्वीन्द्रियस्य सङ्खयेयंकालं, एवं त्रीन्द्रियस्य चतुरिन्द्रियस्य पञ्चेन्द्रियस्य च सागरोपमसहस्रं सातिरेकम्। साम्प्रतमन्तरप्रतिपादनार्थमाह-'पुढविक्काइयस्सण'मित्यादि,पृथ्वीकायिकस्य भदन्त! अनन्तरं कालतः कियच्चिरं भवत?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तम्, अन्यत्रान्तर्मुहूर्त स्थित्वा भूयः पृथिवीकायिकत्वेन कस्याप्युत्पादात्, उत्कर्षतोऽनन्तं कालमनन्ता उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतोऽनन्ता लोकाः असङ्ख्येयाः पुद्गलपरावर्तीः, ते च पुद्गलपरावर्ता आवलिकायाअसङ्ख्येयो भागः, पृथिवीकायादुद्ध त्य वनस्पतिष्वेतावन्तं कालं कस्याप्यवस्थानसम्भवात्, एवमप्तेजोवायुद्वित्रिचतुष्पञ्चेन्द्रियाणामपि वक्तव्यं, वनस्पतिकायिकस्यजघन्यतोऽन्तर्मुहूर्त, तद्भावना प्रागिव, उत्कर्षतोऽसङ्खयेयं कालमसङ्खयेया उत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्ररतोऽसङ्खयेया लोकाः, शेषकायेषूत्कर्षतोऽप्येतावन्तं कालमवस्थानसम्भवात्। साम्प्रतमेतेषामल्पबहुत्वमाह-'एएसिण'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम सर्वस्तोकाः पञ्चेन्द्रियाः सङ्खयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमित प्रतरासङ्खयेयभागवर्त्यसङ्खयेयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, विष्कम्भसूच्यास्तेषांप्रभूतसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्योऽपित्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततरसहखयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्यो द्वीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभूततमसङ्खयेययोजनकोटीकोटीप्रमाणत्वात्, तेभ्यस्तेजस्कायिका असङ्खयेयगुणाः, असङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यः पृथिवीकायिका विशेषाधिकाः, प्रभूतासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्योऽकायिका विशेषाधिकाः,प्रभूततरासङ्घयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वायुकायिका विशेषाधिकाः, प्रभूततमासङ्खयेयलोकाकाशप्रदेशप्रमाणत्वात्, तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वात् उपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ प्रतिपत्तिः-८ समाप्ता (प्रतिपत्तिः-९ “दसविधा" वृ. उक्ता नवविधप्रतिपत्ति, सम्प्रति क्रमप्राप्तां दशविधप्रतिपत्तिं प्रतिपादयति मू. (३६८) तत्थ णं जे ते एवमाहंसु दसविधा संसारसमावन्नगा जीवा ते एवमाहंसु तंजहा-पढमसमयएगिंदिया अपढमसमयएगिंदिया पढमसमयबेइंदिया अपढमसमयबेइंदिया जाव पढमसमयपंचिंदिया अपढमसमयपंचिंदिया, पढमसमयएगिदियस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता?। गोयमा ! जहन्नेणं एक समयं उक्को० एक्क, अपढमसमयएगिदियस्स जहन्नेणं खुड्डागं भवग्गहणं समऊणं उक्को० बावीसं वाससहस्साई समऊणाई, एवं सव्वेसिं पढमसमयिकाणं जहण्णेणं एक्को समओ उक्कोसेणं एक्को समओ, अपढम० जहन्नेणंखुड्डागं भवग्गहणं समऊणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003313
Book TitleAgam Suttani Satikam Part 09 Jivajivabhigam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy