________________
प्रतिपत्तिः-७,
४७१ जावपढमसमयदेवाणयकतरे २ हितो०?, गो० सव्वत्थोवा पढमसमयमणुस्सा पढमसमयनेरइया असंखेजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा ।
अपढमसमयनेरइयाणं जाव अपढमदेवाणं एवं चेव अप्पबहु० नवरि अपढमसमयतिरिक्खजोणिया अनंतगुणा॥एतेसिं पढमसमयनेरइयाणं अपढम० नेरतियाणं कयरे २?, सव्वत्थोवा पढमसमयनेरतिया अपढमसमयनेरइया असंखेजगुणा, एवं सब्बे।
पढमसमयनेरइयाणं जाव अपढमसमयदेवाण य कयरे २?, सव्वत्योवा पढमसमयमगुस्सा अपढमसमयमणुस्सा असंखेज्जगुणा पढमसमयनेरइया असंखिजगुणा पढमसमयदेवा असंखेजगुणा पढमसमयतिरिक्खजोणिया असंखेजगुणा अपढमसमयनेरइया असंखेजगुणा अपढमसमयदेवा असंखेजगुणा अपढमसमयतिरिक्खजोणिया अनंतगुणा।
सेत्तं अट्ठविहा संसारसमावन्नगा जीवा पन्नता॥
वृ. 'तत्थे'त्यादि, तत्र येते एवमुक्तवन्तः-अष्टविधाः संसारसमापन्ना जीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-प्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः, प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः, प्रथमसमयमनुष्याअप्रथमसमयमनुष्याष,प्रथमसमयदेवाअप्रथमसमयदेवाः, तत्र प्रथमसमयनारका नारकायुःप्रथमसमयसंवेदिनः अप्रथमसमयनारका नारकायुद्धर्यादिसमयवर्तिनः, एवं तिर्यग्योनिकादयो भावनीयाः।
साम्प्रतमेतेषामष्टानांक्रमेण स्थितिमाह-'पढमसमयनेरइयस्सण मित्यादिप्रश्नसूत्रसुगम, भगवानाह-गौतम! एकं समयं, द्वयादिषुसमयेषुप्रथमसमयत्वविशेषणायोगात्, अप्रथमसमयप्रश्नसूत्रसुगमं, भगवानाह-गौतम! जघन्येन दशवर्षसहस्राणिसमयोनानि, समयातिक्रान्तावेवाप्रथमसमयविशेषणत्वभावात्, उत्कर्षतस्त्रयस्त्रिशत्सागरोपमाणि समयोनानि ।तिर्यग्योनिकादीनां प्रथमसमयानां सर्वेषामेकं समय, अप्रथमसमयतिर्यग्योनिकानांजघन्येन क्षुल्लकभवग्रहणंसमयोनं, उत्कर्षतस्त्रीणिपल्योपमानि समयोनानि। एवंअप्रथमसमयमनुष्याणामपि।अप्रथमसमयदेवानां जघन्येन दश वर्षसम्राणि समयोनानि, उत्कर्षतस्त्रयस्त्रिशत् सागरोपमाणि समयोनानि।
अधुनैषामेव कायस्थितिमाह-'पढमसमयनेरइयाणंभंते! पढमसमयनेरइयत्तिकालतो केवचिरं होइ ?' इति प्रश्नसूत्रं सुगम, भगवानाह-गौतम! एकं समयं, तदनन्तरं प्रथमसमयत्वविशेषणायोगात् । अप्रथमसमयसूत्रे यदेव स्थितिपरिमाणं तदेव कायस्थितिपरिमाणमपि, देवनैरयिकाणांभूयो भूयस्तद्भावभावितया नैरन्तर्येणोत्पादायोगात्। प्रथमसमयतिर्यग्योनिकसूत्रं, प्रथमसमयनैरयिकसूत्रवत्, अप्रथमतिर्यग्योनिकसूत्रेजघन्येन क्षुल्लकभवग्रहणंसमयोनं, समयोनता प्रथमसमयहीनत्वात्, उत्कर्षतोऽनन्तकालं, सचानन्तः कालो वनस्पतिकालः प्रागुक्तस्वरूपः । प्रथमसमयमनुष्यसूत्रपूर्ववत्, अप्रथमसमयमनुष्यसूत्रेजघन्यतः क्षुल्लकभवग्रहणंसमयोनं, तदनन्तरं मृत्वाऽन्यत्रोत्पादात, उत्कर्षतस्त्रीणिपल्योपमानि पूर्वकोटीपृथक्त्वाभ्यधिकानिसमयोनानि, तानि सप्तसुभवेषु पूर्वकोटयायुष्केष्वष्टमे भवेदेवकुर्वादिषूत्पद्यमानस्य वेदितव्यानि, देवा यथा नैरयिकाः
साम्प्रतमेतेषामेवाष्टानामन्तरंक्रमेण चिन्तयन्नाह-'पढमसमयनेरइयस्सणंभंते!' इत्यादि, प्रथमसमयनैरयिकस्य भदन्त ! अन्तरंकालतः कियच्चिरंभवति?, भगवानाह-गौतम!जघन्यतो दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि, तानि दशवर्षसहस्रस्थितिकस्य नैरयिकस्य नरकादुद्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org