Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 480
________________ प्रतिपत्तिः - ९, ४७७ साम्प्रतमेतेषामेकेन्द्रियादिप्रथमसमयानां परस्परमल्पबहुत्वमाह-‘एएसि णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयपञ्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादात, तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात्, तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, प्रभूततराणां तेषामेकस्मिन् समयेउत्पादात्,तेभ्यः प्रथमसमयद्वीन्द्रिया विशेषाधिकाः,प्रभूतानांतेषामेकस्मिन्समये उत्पादात्, तेभ्यः प्रथमसमयैकेन्द्रिया विशेषाधिकाः,इह ये द्वीन्द्रियादिभ्य उद्धृत्य एकेन्द्रियत्वेनोत्पद्यन्ते त एवप्रथमे वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, तेच प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासङ्ख्येया नानन्तगुणा इति। साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वाह-'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रियाविशेषाधिकाः,तेभ्योऽप्रथमसमयत्रीन्द्रियाविशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, अत्र युक्तिनवविधप्रतिपत्ती सामान्यतो द्वित्रिचतुष्पञ्चेन्द्रियाणां बहुत्वचिन्तायामवि भावनीया, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतिजीवानामनन्तत्वात्। साम्प्रतमेकेन्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियानां तावदाह-एएसिणंभंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसयैकेन्द्रियाः, अल्पानामेवैकस्मिन् समये द्वीन्द्रियादिभ्यआगतानामुत्पादातू, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतीनामनन्तत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रिया असङ्खयेयगुणाः, द्वीन्द्रियाणां सर्वसङ्ख्ययाऽप्यसङ्ख्यातत्वात्, एवं त्रिचतुष्पञ्चेन्द्रियसूत्राण्यपि वक्तव्यानि।। साम्प्रतमेतेषां दशानामपि परस्परमल्पबहुत्वमाह-एएसिणमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः प्रथमसमयपञ्चेन्द्रियाः, तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः,तेभ्यःप्रथमसमयत्रीन्द्रियाविशेषाधिकाः,तेभ्यः प्रथमसमयद्वीन्द्रियाविशेषाधिकाः, तेभ्यः प्रथमसयैकेन्द्रिया विशेषाधिकाः, अत्र युक्ति प्रथमाल्पबहुत्ववत्, तेभ्योऽप्रथमसमयपश्चेन्द्रियाअसङ्खयेयगुणाः,अप्रथमसमयैकेन्द्रियाहि द्वीन्द्रियादिभ्यउद्धृत्यैकेन्द्रियभवप्रथमसमये वर्तमानास्ते च स्तोका एव, पञ्चेन्द्रियास्त्वप्रथमसमयवर्तिनश्चिरकालावस्थायितया गतचतुष्टयेऽप्यतिप्रभूतास्ततोऽसङ्खयेयगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयैकन्द्रिया अनन्तगुणाः, अत्र युक्तिद्धितीयाल्पबहुत्ववत् । उपसंहारमाह-‘सेत्तं दसविहा संसारसमापन्ना जीवा' । मूलोपसंहारमाह-'सेत्तं संसारसमापन्नजीवाभिगमे॥ प्रतिपत्तिः-९ समाप्ता मुनि दीपरलसागरेण संशोधिता सम्पादिता जीवाजीवाभिगम सूत्रे नवमप्रतिपत्याः मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532