Book Title: Agam Suttani Satikam Part 09 Jivajivabhigam
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४८०
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व० /१/३७०
ण्यपि भावयितव्यानि, तच्चैवम्- 'अहवा दुविहा सव्वजीवा पन्नत्ता, तंजहा - सकाइया चेव अकाइया चेव, एवं सजोगी चेव अजोगी चैव तहेव, एवं सलेस्सा चेव अलेस्सा चेव ससरीरा पन्नत्ता, तंजा - सकाइया चेव अकाइया चेव, एवं सजोगी चेव अजोगी चेव तहेव, एवं सलेस्सा चेव अलेस्सा चेव ससरीरा चेवा असरीरा चेव संचिट्ठणं अंतरं अप्पाबहुयं जहा सकाइयाणं ।
भूयः प्रकारान्तरेण द्वैविध्यमाह - ' अहवे' त्यादि, अथवा द्विविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथासवेदकाश्च अवेदकाश्च । तत्र सवेदकस्य कायस्थितिमाह - 'सवेदए णं भंते !' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम! सवेदकस्त्रविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपर्यवसितश्च तत्रानाद्यपर्यवसितोऽभव्यो भव्यो वा तथाविधसामग्रयभवान्मुक्तिमगन्ता, उक्तञ्च - " भव्वावि न सिज्झति केइ" इत्यादि, अनादिसपर्यवसितो भव्यो मुक्तिगामी पूर्वमप्रतिपन्नोपशमश्रेणि, सादिसपर्यवसितः पूर्वं प्रतिपन्नोपशमश्रेणि, उपशमश्रेणि प्रतिपद्य वेदोपशमोत्तरकालावेदकत्वमनुभूय श्रेणसमाप्तौ भवक्षयादपान्तराले मरणतो वा प्रतिपततो वेदोदये पुनः सवेदकत्वोपपत्तेः, तत्र योऽसौ सादिसपर्यवसितो जघन्येनान्तर्मुहूर्त्त श्रेणिसमाप्तौ सवेदकत्वे सति पुनरन्तर्मुहूर्तेन श्रेणिप्रतिपत्ताववेदकत्वभावात्, आह-किमेकस्मिन् जन्मनि वेलाद्वयमुपशमश्रेणिलाभो भवति ? यदेवमुच्यते, सत्यमेतद्भवति, तथा चाह मूलटीकाकार:
"नैकस्मिन् जन्मनि उपशमश्रेणि क्षपकश्रेणिश्च जायते, उपशमश्रेणिद्वयं तु भवत्येवेति, तत एवमुपपद्यते - जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽनन्तं कालं, तमेव कालक्षेत्राभ्यांनिरूपयति - अनन्ता उत्सर्पिण्यवसर्पिण्यः एषा कालतो मार्गणा, क्षेत्रतोऽपार्द्धपुद्गलपरावर्त्त देशोनम्, एतावतः कालादूर्ध्वं पूर्वप्रतिपन्नोपशमश्रेणेरवश्यं मुक्त्यासन्नतया श्रेणिप्रतिपत्ताववेदकत्वभावात् ।
'अवेदए णं भंते!' इत्यादि प्रश्नसूत्रं पाठसिद्धं, भगवानाह - गौतम ! अवेदको द्विविधः प्रज्ञप्तस्तद्यथा - सादिको वाऽपर्यवसितः [ समयानन्तरं ] क्षीणवेदः, सादिको वा सपर्यवसितउपशान्तवेदः, तत्र योऽसौ सादिसपर्यवसितोऽवेदकः स च जघन्येनैकं समयं, उपशमश्रेणि प्रतिपन्नस्य वेदोपशमसमयानन्तरेऽपि मरणे पुनः सवेदकत्वोपपत्तेः, उत्कर्षतोऽन्तर्मुहूर्तमुपशान्तवेदश्रेणिकालं तत ऊर्द्ध श्रेणेः प्रतिपतने नियमतः सवेदकत्वभावात् ।
अन्तरं प्रतिपिपादयिषुराह - 'सवेदगस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम अनादिकस्यापर्यवसितस्य सवेदकस्य नास्त्यन्तरं, अपर्यवसिततया सदा तद्भावापरित्यागात्, अनादिकस्य सपरयवसितस्यापि नास्त्यन्तरं, अनादसपर्यवसितो ह्यपान्तराले उपशमश्रेणिमप्रतिपद्य भावी क्षीणवेदो न च क्षीणवेदस्य पुनः सवेदकत्वं प्रतिपाताभावात्, सादिकस्य सपर्यवसितस्य सवेदकस्य जघन्येनैकं समयमन्तरं, द्वितीयवारमुपशमश्रेणिं प्रतिपन्नस्य वेदोपशमसमयानन्तरं मरणसम्भवात्, उत्कर्षेणान्तर्मुहूर्त द्वितीयं वारमुपशमश्रेणिं प्रतिपन्नस्योपशान्तवेदस्य श्रेणिसमाप्तेरूर्द्ध पुनः सवेदकत्वभावात् ।
अवेदकसूत्रे सादिकस्यपर्यवसितस्यावेदकस्य नास्त्यन्तरं, क्षीणवेदस्य पुनः सवेदत्वाभावात्, वेदानां निर्मूलकाषंकषितत्वात्, सादिकस्य सपर्यवसितस्य जघन्येनान्तर्मुहूर्तं, उपशमश्रेणिसमामौसवेदकत्वे सति पुनरन्तर्मुहूर्त्तेनोपशमश्रेणिलाभतोऽवेदकत्वोपपत्तेः, उत्कर्षतोऽनन्तं कालं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b44afc7a6858768d4504f3666ae960403d5c0a0f00a44607f81276982fda8a3a.jpg)
Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532